पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
20
अलङ्कारमणिहारे

 तद्यथा--

 त्वच्चरणरुचितुलायां हरे प्रवालो बहिष्कृतिं प्राप्तोऽभूत् । प्रमुखस्सन्वामध्यो यद्भजतेऽलं विसर्गमेवान्तेऽसौ ॥ २०३२ ॥

 अत्र साध्येन हरिचरणतुलाबहिष्कृतत्वेनानुमितेराक्षेपात्प्रतीयमानत्वम् । हे हरे! प्रवालः विद्रमः त्वच्चरणरुचितुलायां बहिष्कृतिं प्राप्तः । यत् यस्मात् असौ प्रवालः प्रमुखस्सन्वा सर्वैरग्रतो गणनीयो भवन्नपि मध्यः केनापि निहीनकर्मणा अधमस्खन्नित्यर्थः । ‘मध्यं न्याय्येऽवकाशेऽवलग्नके लग्नकेऽवमे' इति विश्वः । अतएव अन्ते पर्यवसाने दूरे वा अलं विसर्गमेव सर्वैरतिमात्रं विसृष्टत्वमेव भजते । पक्षे प्रवालः प्रवालशब्दः प्रमुखः प्रवर्णमुखः वामध्यः वा इत्याकारकवर्णो मध्यो यस्य स तथोक्तः लं लवर्णं अन्ते अवसाने विसर्गं च भजते इत्यर्थः ॥

 यथावा--

 तावकवचनामृतरससंस्पर्धी ननु वनप्रियो जननि । नप्रिय एवावगतो नेतः प्रीतो यतोऽन्ततो भाति ॥ २०३३ ॥

 ननु जननि! तावकवचनामृतरससंस्पर्धी वनप्रियः नप्रिय एव प्रीत्यविषय एव अवगतः निश्चितः । यतः कारणात् अन्ततः साधु विमर्शेऽपीति यावत् । इतः अस्मात् वनप्रियात् प्रीतः संतुष्टः जनः न भाति कश्चिदप्यनेन तोषितः क्वापि न प्रकाशत इत्यर्थः । तस्मात् वनमात्रप्रियोऽयं न जनप्रिय इति भावः । अन्यत्र वनप्रिय इति शब्दः अवगतः वगतः वकारं प्राप्तः स न