पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
247
शब्दालङ्कारसरः (१२२)

 अथ स्थाननियमः । तत्र चतुस्स्थाननियमो यथा--

 दृष्टिश्रुतिभूभृद्विभुनुतिसृतिभृभृद्भुवि विभीस्सुधीवृत्ती । नीतिविनीतिद्युतिधृतिविभूतिभूमिश्श्रुतिस्मृतिस्थितिवित् ॥ २३३४ ॥

 दृष्टिश्रुतिः चक्षुश्श्रवाः स चासौ भूभृत् शेषगिरिरित्यर्थः । तस्य विभुः श्रीनिवास: तस्य नुतिसृतिभृत् स्तुतिसरणिभर्ता स्तोतेत्यर्थः । ईदृशो जनः भुवि धीश्च वृत्तं चरित्रं तच्च धीवृत्ते शोभने च ते सुधीवृत्ते च ते अस्य स्त इति सुधीवृत्ती मत्वर्थीय इनिः । शोभनबुद्धिश्शोभनाचारश्चेत्यर्थः । नीतिः नयः विनीतिर्विनयः द्युतिः तेजः धृतिः धैर्यं विभूतिरैश्वर्यं तासां भूमिः आश्रयः श्रुतिर्वेदः स्मृतिर्धर्मशास्त्रं एतयोः स्थिति: मर्यादा तां वेत्तीति श्रुतिस्मृतिस्थितिवित् 'मर्यादा धारणा स्थितिः' इत्यमरः । भवतीति शेषः । अत्र केवलतालव्यमूर्धन्यदन्त्योष्ठ्यैरेव वर्णैर्घटना ‘आनुनासिक्यमेषामधिको गुणः’ इति भाषणात्प्रकृते नकारस्य दन्त्यत्वमात्रविवक्षया न स्थाननियमभङ्ग इति ध्येयम् । इदं निष्कण्ठ्यवर्णाचित्रमपि । किंचात्र इकार ईकार उकार ऊकार ऋकार इत्येते पञ्चैव स्वरा न्यबध्यन्त । यद्यपि पञ्चस्वरैरेव घटनं नातिप्रयाससाध्यमित्यनाश्चर्यमित्यवोचाम । तथापि वर्णस्थाननियमे स्वरनियमस्याप्यानुषङ्गिकत्वे तदप्याश्चर्यावहमेवेति ध्येयम् ॥

 स्फीते मुनिभिर्ध्याते श्रीसिन्धुसुतेऽद्भुते द्युसिन्धुयुते । शेषे शेषिणि शैलेऽभ्येषि प्रीतिं प्रियेणोच्चैः ॥ २३३५ ॥