पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
246
अलङ्कारमणिहारे

अत्र अकार इकार उकार इति त्रय एवैते स्वरा ग्रथिताः ॥

 द्विस्वरनियमो यथा--

 वेदेवेदे वेद्ये ध्येयेऽमेये प्रियेऽक्रियेऽक्षेये । गेयेऽजेये देवे देवेशेड्येऽक्षि मे रेमे ॥ २३३२ ॥

 वेदेवेदे प्रतिवेदं वेद्ये ज्ञेये । ध्येये ध्यातव्ये । अमेये ‘यतो वाचो निवर्तन्ते' इत्याद्युक्तरीत्या वागाद्यपरिच्छेद्ये परिच्छेदत्रितयागोचरे वा । प्रिये निरतिशयप्रीतिविषये अक्रिये ‘निष्क्रियं निष्कलम्’ इत्याद्युक्तरीत्या अकर्मवश्ये । क्षेतुं योग्यः क्षेयः स न भवतीत्यक्षेयः तस्मिन् इदं ‘क्षय्यजय्यौ' इत्यस्य प्रत्युदाहरणम् । उपलक्षणमेतन्सर्वभावविकाराणां राहित्यस्य । गेये गातुं योग्ये । जेतुं योग्यो जेयः स न भवतीत्यजेयः तस्मिन् । इदमप्युदाहृतसूत्रप्रत्युदाहरणमेव । देवेशैः ब्रह्मादिभिः ईड्ये स्तुत्ये । देवे भगवति श्रीनिवासे मे मम अक्षि लोचनं रेमे अरमत तन्निध्यानैकतानमभवदिति भावः । अत्र रेमे इति लिट्प्रयोगस्स्वस्य प्रमोदपारवश्यप्रयुक्तपारोक्ष्यं सूचयति । अत्र इकार एकार इत्येतयोर्द्वयोरेव स्वरयोर्यन्त्रणम् ॥

 एकस्वरनियमचित्रं यथा--

 त्वच्चरणशरणवरणक्षतसकलमलस्य कमलनयन मम । भवदवपथसंचरणश्रममपनय वरद परदरक्षपण ॥ २३३३ ॥

 परेभ्यः कामादिवैरिभ्यः यः दर: भयं तस्य क्षपणः ध्वंसकः तस्य संबुद्धिः । अत्र ह्रस्वाकारस्यैकस्यैव स्वरस्य निबन्धः ॥