पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
238
अलङ्कारमणिहारे

 यथावा--

 शुद्धस्वभावमाशु त्वत्तोऽवेदप्रसिद्विमान्कोऽन्यः । दुरितं निरस्य शौरे यस्य च मम तव पदे निधानाय ॥ २३२३ ॥

 अत्र अव अवेत् निरस्य यस्य इति क्रियाचतुष्टयस्य वञ्चनम् । शुद्धस्वभ ! स्वयंप्रकाशस्वरूपेत्यर्थः । हे शौरे ! मा मां आशु अव रक्ष । प्रसिद्धिमान्न भवतीत्यप्रसिद्धिमान् । सर्वेश्वरत्वादिप्रसिद्धिविधुरः अन्यः इतरः कः अवेत् रक्षेत् ‘न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम्’ इत्यादिप्रमाणादिति भावः । मम दुरितं निरस्य निश्शेषय । निरित्युपसर्गपूर्वकादस्यतेः दैवादिकात्क्षेपणार्थकाल्लोण्मध्यमैकवचनम् । तव पदे दिव्ये स्थाने मम निधानाय स्थापनाय यस्य प्रयतस्व । ‘यसु प्रयत्ने’ दैवादिकादस्माल्लोण्मध्यमः ॥

 आमन्त्रणवञ्चनं यथा--

 विभवेतादृशि तव पदि निहितभरो नित्यसूरिसदसोऽर्हम् । कैंकर्यमनुपमं त्वयि विधातरीशे सदा विधातुमलम् ॥ २३२४ ॥

 विभो एतादृशीति विधातः ईशे इति च छेदः । हे विधातः जगत्स्रष्टः ‘एष धाता विधाता च । आधातारं विधातारम्' इत्युक्तेः एतादृशि एवंविधमहामहिमास्पदे तव पदि पादे निहितभरः अर्पितात्मरक्षाभरः नित्यसूरिसदसः अनन्तगरुडविष्वक्सेनादिनित्यसुरिपरिषदः अर्हं अतएव अनुपमं कैंकर्यं शेषवृत्तिं सदा विधातुं ईशे समर्थो भवामि । अत्र विभवेतादृशीत्यानुपूर्व्या विशेष्यवि