पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
237
शब्दालङ्कारसरः (१२२)

 हृदयस्य ग्रन्थिबन्धः ग्रन्थिबन्धवद्दुर्मोचो रागादिः तस्य परिमोक्षः कृतो यैस्तथोक्ताः तव कटाक्षाः अखिलं विशयं संशयं अवश्यन्तु तनूकुर्वन्तु । छिन्दन्त्वति यावत् । विशदं स्पष्टं यथास्यात्तथा मे मम सर्वकर्म च अवद्यन्तु अवखण्डयन्तु क्षपयन्त्वित्यर्थः । अत्र--

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥

 इति श्रुत्यर्थोऽनुसंहितः । अवश्यन्तु अवद्यन्तु इत्यत्र 'शो तनूकरणे’ ‘दो अवखण्डने’ इति च दैवादिकाद्धातोर्लोट् । अत्रावश्यमिति अवद्यमिति च सुबन्तभ्रमजननेन क्रिययोर्वञ्चनम् ॥

 यथावा--

 भगवदुरो या जगतां भद्राय निकाममनुपमेयाय । सा पावनगुणभूमा पापातु रमाऽऽर्तमनघकरुणा माम् ॥ २३२२ ॥

 अनुपमा असदृक् लोकोत्तरेत्यर्थः या रमा लक्ष्मीः जगतां भद्राय क्षेमाय भगवदुरः इयाय ययौ । इणः कर्तरि लिट् प्रथमैकवचनम् । पावनः गुणभूमा यस्यास्सा अनघकरुणा सा रमा मां पापातु भृशं पातु । 'पा रक्षणे' अस्माद्यङूलुकि लोट् । अत्र अनुपमेयायेत्यत्र भद्रायेत्येतद्विशेषणं चतुर्थ्यन्तमिति, पापातु रमार्तमित्यत्र मामित्यस्य विशेषणं पापातुरं आर्तमिति द्वितीयान्तपदद्वयमिति भ्रमजननेन इयाय पापातु इति क्रिययोर्विवक्षितयोर्वञ्चनमिति ध्येयम् ॥