पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
234
अलङ्कारमणिहारे

हि ज्ञानिनोऽत्यर्थमहम्’ इति हि तेन गीयते । भवे संसारे एव दवे वनानले कान्तारे वा व्यस्तरूपकं परिलुठतः ममेति शेषः । पापानि अस्य निराकुरु । अस्यतेर्दैवादिकाल्लोण्मध्यमैकवचनम् । कुतो मामेव निर्बध्नासीत्यत आह--प्रभवितेत्यादि । भवतः त्वत्तोऽपि इतर: अन्यः प्रभविता पापहरणकर्मणि प्रभुः समर्थ इत्यर्थः । ममेति शेषः । चेतस्तः चित्तं द्वितीयायास्सार्वविभक्तिकस्तसिः । न वाति न गच्छति । वातेर्गत्यर्थकादादादिकाल्लट् । त्वत्तोऽन्यः पापनिर्वापणधुरीणः मच्चित्तगोचरतां न यातीत्यर्थः । ‘हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः’ इत्यादिवचनादिति भावः । अतस्त्वमेव मे पापानि निराकुर्वित्यर्थः । अत्रान्यार्थकपदानुपूर्व्या तिङन्तानां पदानामाभासनात्तिङन्तवदाभासनामेदं चित्रमस्मदुपज्ञम् ॥

 भवत आप हर जय आवह पापानि भवेत् अवेः स्य परिलुठतः प्रेमः दधे प्रभविता भवतः अव अतीतरः अन चेत स्तः ॥ इति छेदे एकोनविंशतिस्तिङन्तपदान्याभासन्ते इति सावधानं विभावनीयम् ॥


अथ गूढपादचित्रम्

अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत् ।
चित्रं तद्गूढपादाख्यं चतुर्धाऽऽद्यादिगूहनात् ॥

 अन्यपादस्थितानां वर्णानां पादान्तरेषु गूहने गूढपादं नाम चित्रम् । तच्च प्रथमादीनां चतुर्णां पादानामैकैकश्येन गूहनाच्चतुर्धा भवति गूढप्रथमं गूढद्वितीयमियादिप्रकारेण ॥