पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
233
शब्दालङ्कारसरः (१२२)

कज्ञानानन्दादिकल्याणगुणवत्तया प्रकाशमान इत्यर्थः । तत्तद्देवादिशरीरानुप्रविष्टत्वेऽपि तत्कृततदीयदोषासंस्पृष्टत्वमनेन द्योतितम् । यत्सूत्रितं ‘संभोगप्राप्तिरिति चेन्न वैशेष्यात्' इति । मया श्रिया । अत्र य इत्यध्याहार्यमुत्तरत्र स इति दर्शनात् । आस दिदीपे । दीप्त्यर्थकादसेर्लिट् । स्वाभाविकनिरवधिकदीप्तियुक्त एव यो भगवान् हेम्नेव मणिश्श्रिया विशेषतो दीप्यत इति भावः । अवने रक्षणे उद्यतः उद्युक्तः ‘न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । इत्युक्तेः । सः पूर्वोक्तगुणशाली भगवान् मया शेषभूतेनेति भावः । प्रापि प्रापद्यत प्रपूर्वकादाप्नोतेः कर्मणि लुङि चिण् ॥

 अत्र पद्ये सत् वा रे नो हन्त आ बहुथा भूयः स्वधा आम वत् न अमा दोषा अति इतः सु दिवा समयासमया अव न उत् यत: प्र अपि इत्यव्ययपरंपराया आभासः । समयासमयेति द्विरुक्ताव्ययस्याभास इति द्रष्टव्यम् ॥


अथ तिङन्तवदाभासः

यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः ।
तत्तिङन्तवदाभासचित्रं चित्रज्ञसम्मतम् ॥

 यथावा--

 भवतापहर जयावह पापानि भवे दवेस्स्य परिलुठतः । प्रेमोदधे प्रभविता भवतो वातीतरो न चेतस्तः ॥ २३१६ ॥

 भवतापस्य हरः तस्य संबुद्धिः । जयावह आश्रितोत्कर्षदायिन् प्रेमा प्रियत्वं तस्य उदधे निरतिशयप्रियेत्यर्थः। ‘प्रियो

 ALANKARA IV.
18