पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
210
अलङ्कारमणिहारे

दना समं सर्वं जगत् आनयति जीवयतीति समानना कर्तरि ल्युः । 'समं सर्वम्' इत्यमरः । मा श्रीः मा मां जुषतां सेवताम् । मा जुषतामिति पदाभ्यां ‘श्रीर्मा देवी जुषताम्’ इति श्रुतिखडः प्रत्यभिज्ञाप्यते । यां अमराधिनाथः इन्द्रः समाननाम सम्यक् प्रणतवान् शरणं गत इत्यर्थः । अत्रापि पूर्ववदेव यमकम् । पञ्चानां वर्णानामावृत्तिरिति पूर्वस्माद्वैलक्षण्यम् ॥

 न भयानकाद्द्रवेयं न काद्द्रवेयं यमं समीक्ष्यास्मात् । नो यदि स वै नते यः सवैनतेयः प्रभुर्ददात्यभयम् ॥ २२८१ ॥

 यमं काद्रवेयं यमरूपमाशीविषमिति व्यस्तरूपकम् समीक्ष्य भयानकात् अस्मात् न द्ववेयमिति न किंतु द्रवेयमेव । नते शरणागते विषये यः प्रभुः अभयं ददाति सवैनतेयः वैनतेयसहितः सः प्रभुः भगवान् नो वै यदि नैव चेत् न द्रवेयमिति नेति योजना । अत्र प्रथमपादान्त्यभागः पञ्चवर्णात्मको द्वितीयपादादिभागे आवर्त्यते । एवमुत्तरार्धेऽपि विभिन्नानुपूर्वकिपञ्चवर्णावृत्तिरिति पूर्वेभ्यो विशेषः । एवमग्रेऽपि । सवैनतेयः इत्यत्र 'वा शरि’ इति पाक्षिकः विसर्जनीयस्य विसर्जनीयः यमकावैरूप्यायेष्टव्यः ॥

 यथावा--

 नयसे यमसालोक्यं यमसालोक्यं भजेत स हि जन्तुः । गमयसि यं परमपदं परमपदं स्यात्स संसरणविपदः ॥ २२८२ ॥