पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
211
शब्दालङ्कारसरः (१२२)

 यं जन्तुं सलोकस्य भावः सालोक्यं न सालोक्यं असालोक्यं आलोको दर्शनं कटाक्षाविषयतामित्यर्थः नयसे स जन्तुः यमसालोक्यं कृतान्तसलोकतां भजेत । यं परमपदं दिव्यं स्थानं गमयसि सः संसरणविपदः संसारापदः पदं स्थानं न पदं अपदं अविषय इति यावत् स्यात् संसृतिक्लेशान्पुनर्नानुभवेदित्यर्थः ॥

 यथावा--

 त्वं ननु बहुलाघवतो बहुलाघवतोऽपि बत नताञ् जननि । शौरे रक्षसि दयिता रक्षसि दयिताऽसि किमथवाऽऽश्चर्यम् ॥ २२८३ ॥

 ननु जननि बहुलाघवतः अतिलाघवेन सार्वविभक्तिकस्तसिः । अतिमात्रचित्तचापलेनेति भावः । बहुलं अधिकं अघं पापमेषामस्तीति बहुलाघवतोऽपि नतान् शरणागतान् शौरेर्दयिता त्वं रक्षासि । बत अघवतामपि रक्षणमाश्चर्यावहमिति भावः । स्वयमेव समाधत्ते--अथवेति । रक्षसि काकासुर एव वा रावण एव वदयिता दयमाना असि दयतेः कर्तरि क्तः दयाऽस्यास्संजाता दयितेति वा तारकादित्वादितच् । इदं च पाद्मरामायणयोः स्पष्टम् । अतः अघवतामपि विनतानां रक्षणं किमाश्चर्यमिति भावः । पूर्ववदेवेदं यमकं, षण्णामक्षराणामावृत्तिः परं विशेषः ॥

 यथावा--

 दिव्यास्सुतरामहतीस्सुतरा महतीस्सदाऽखिलाश्शक्तीः । भृशमवितथा दधानं तथाऽऽदधानं श्रियं जयतु दैवम् ॥ २२८४ ॥