पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
208
अलङ्कारमणिहारे

 यथावा--

 स जयति भुजगेशधरो जपावनं सहजपावनं यत्र । यत्र नृणां दानतपोजपावनं दिविजपावनं भवति ॥ २२७७ ॥

 दानतपोजपानां अवनं गमनं प्राप्तिरित्यर्थः । अवतेर्गत्यर्थकाद्भावे ल्युट् । दिविजान्पातीति दिविजपः देवेशः भगवान् तस्य अवनं प्रीणनं भवति । प्रीणनार्थकादवतेः करणे ल्युट् । स्पष्टमन्यत् । अत्र द्वितीयपादे वर्णान्तरव्यवधानेनावृत्तस्य जपावनमित्यक्षरसमुदायस्य तुरीयपादे तथाऽऽवृत्तिरिति विशेषः ॥

 अतिबहुलसत्तमो जायतेऽहिभूभृत्पते मनो यस्य । बत बहुलसत्तमोजायते हि भूभृत्स तव दृष्ट्या ॥ २२७८ ॥

 हे अहिभूभृत्पते! यस्य पुंसः मनः अतिबहुलं सत् विद्यमानं तमः यस्य तथोक्तं जायते त्वत्कटाक्षप्रसरात्पूर्वमतिमात्रतामसं भवतीति भावः । सः मनुजः तव दृष्ट्या 'यत्सत्त्वं स हरिर्देवः’ इति सत्त्वमयतयोक्तस्य तव कटाक्षेणेति भावः । बहुला सत्ता साधुता प्रशस्तता वा यस्मिंस्तत्तथोक्तं यथातथा । यद्वा बह्वी लसतो भावः लसत्ता भगवत्संश्लेषः यस्मिंस्तद्यथातथा हि भूभृदिति छेदः । भूभृत् राजा सन् ओजायते । हिरवधारणे । सत्त्वगुणोन्मेषेण दीप्यते । 'तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्’ इति सत्त्वगुणस्य प्रकाशकत्वं हि गीयते । अत्र पूर्वार्धमध्यभाग उत्तरार्धमध्यभागे आवर्त्यते । विपुलानामार्यावृत्तभेदोऽयमिति च विशेषः ॥