पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
207
शब्दालङ्कारसरः (१२२)

 शरणेति रणः ध्वनिः रक्षकेत्याक्रन्दनमिति यावत् ‘रणः क्वणे' इति, 'रवे रणः' इति च संकीर्णनानार्थवर्गयोरमरः । 'रण: कोणे क्वणे पुंसि समरे पुंनपुंसकम्' इति मेदिनी च । तस्य । श्रवणक्षणमेव चरणयोः रणन्तौ ध्वनन्तौ कटकौ बलयौ यस्मिन्कर्मणि तद्यथास्यात्तथा अतिजवात् एत्य ग्राहग्रस्तगजेन्द्रसविधमिति भावः । रणरणकः उत्तरोत्तरतरङ्गितभयविसंष्ठुलत्वं निर्गमितः रणरणको यस्य सः नीरणरणकः तथोक्तः कृत: नीरणरणकितः नीरणरणकशब्दात् णिजन्तार्त्कमणि क्तः विचकितः नक्राक्रान्ततया विशेषतः प्रतिहतः वारणः गजेन्द्रो येन तस्य संबुद्धिः नीरणरणकितविचकितवारण ! हे रणधुर्य समरधौरेय हे देव मम शरणं भव । गजेन्द्रस्येव ममापि भयचकिततां निर्धूय परित्राणं विदध्या इति भावः । अत्रापि पूर्ववदेव रणरणेति मध्यभागयमकं पादचतुष्टये ॥

 श्रीवासादेवासावासाद्या सकलसंपदखिलजनैः । का वा सा याऽवासादयितुं संपत्ततो न शक्येत ॥ २२७६ ॥

 असौ जगदानन्दसंदायितया दृश्यमाना अखिलसंपत् श्रीवासात् भगवत एव सकाशात् सकलजनैः आसाद्या प्राप्या । का वा सा या अवासादयितुमिति छेदः । ततः तस्मात् श्रीनिवासात् या संपत् अवासादयितुं अवाप्तुं स्वार्थिको णिच् यद्वा ततः तेन श्रिनिवासेन आसादयितुं श्रितान्प्रापयितुं न शक्येत । सा तथाविधा संपत् का वा न कापि तादृशी संपदस्तीति भावः । अत्राद्यपादे एकवर्णान्तरव्यवहितवासारूपवर्णद्वयावृत्तिलक्षणमध्यभाग एव तृतीयपादे तथाऽऽवर्त्यत इति प्रागुदाहृताव्यवहितवर्णद्वयावृत्तिरूपमध्ययमकाद्विच्छित्तिविशेषः ॥