पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
136
अलंकारमणिहारे

सर्वमुखगणे सर्वादिगणे गणनीयं, तेषां तत्र पठितत्वात् । चरमाल्पकतिपयान्यतमस्य चरमाल्पकतिपयान्यतमशब्दानां पूर्ववत्समाहारः । स्वरूपं तथा भवदादिशब्दवत्सर्वादिगणपठितं जात्वपि न भविता । तेषां तत्रापठिततया ‘प्रथमचरम, इति सूत्रेण जस्येव तेषां पृथक्सर्वनामताविधानादिति भावः । अत्र प्रकृताप्रकृतश्लेषपरिसंख्यापरिकराङ्कुराणामेकवाचकानुप्रवेशः ॥

 यथावा--

 ननु सर्वनामताभाग्व्यवस्थितो दक्षिणस्सपूर्वश्च । देवोत्तरो यथाऽयं परोऽवरोऽप्यव्यवस्थितो न तथा ॥ २१९३ ॥

 पूर्वः सर्वजगत्कारणभूतः ‘सदेव सोम्येदमग्र आसीत् । पूर्वमेवाहमिहासम् । कार्याणां कारणं पूर्वम्’ इत्यादिप्रमाणात् । दक्षिणः ‘तदैक्षत बहु स्याम्’ इत्याद्युक्तप्रक्रियया स्वसंकल्पमात्रानुगुणजगत्सर्जनादिचातुर्यशाली । महोदार इत्यप्युपस्कार्यम् । व्यवस्थितः ‘अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा’ इत्याद्युक्तरीत्या सर्वजगत्यन्तः प्रविश्य नियन्ता! अन्तरङ्गैरपि दोषदर्शकैरक्षुभितचित्ततया स्थिरप्रतिज्ञ इत्यप्युपस्कार्यम् ॥

द्यौः पतेत्पृथिवी शीर्येद्धिमवान् शकलीभवेत् ।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥

 इति तेनैवोक्तत्वात् । सोयं देवोत्तरः देवश्रेष्ठो भगवान् यथा सर्वनामताभाक् सर्वशब्दवाच्यो भवति । अव्यवस्थितः जगत्कारणत्वान्तःप्रविश्यनियन्तृत्वादिव्यवस्थाविधुर इत्यर्थः । चञ्चलचित्ततया प्रतिज्ञातार्थनिर्वहणाक्षम इत्यप्युपस्कार्यम् । अवर: भगवदपेक्षया न्यूनः परः अन्यः ब्रह्मरुद्रादिरपि न तथा ननु ।