पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
135
संकरसरः (१२१)

किंशब्दयोरन्तराळे समं स्वं परं अवरं अन्यश्च समस्वपरावरान्यशब्दान् नात्र क्रमविवक्षा । आदधत् न्यदधात् । दधातेः परस्मैपदिनो लङ् । अन्ततः गणावसाने किं किंशब्दः स्यात् तेन न्यस्तो भवेत् । सर्वादिगणे आदौ सर्वविश्वशब्दयोः अन्तराळे समपरावरान्यशब्दानामवसाने किंशब्दस्य च दर्शनादिति भावः । अत्र परब्रह्माणि प्रस्तुते अप्रस्तुतस्य शाब्दिकमुनेर्वृत्तान्तः प्रतीयत इति समासोक्तिः । श्रुत्युक्तस्य सृष्ट्यादेः शब्दनयसिद्धसर्वादिगणप्रक्रियायाश्च क्रमेण न्यसनाद्रत्नावळी च श्लेषसंकीर्णे एकवाचकानुप्रविष्टे इति द्रष्टव्यम् ॥

 यथावा--

 भवदुभयान्यतरस्य स्वरूपमिह सर्वमुखगणे गणनीयम् । भविता श्रीसख न तथा जात्वपि चरमाल्पकतिपयान्यतमस्य ॥ २१९२ ॥

 हे श्रीसख! इदं च वक्ष्यमाणार्थोपस्कारकम् । भवदुभयान्यतरस्य श्रीश्च भवांश्च भवन्तौ ‘त्यदादीनि सर्वैर्नित्यम्’ इति भवच्छब्दैकशेषः । भवद्रूपं यदुभयं मिथुनं तदन्यतरस्य श्रियाः भवतश्चेति भावः । स्वरूपं सर्वकारणत्वसर्वशेषित्वादिरूपं इह लोके सर्वेषां जनानां मुखगणे वदनसमूहे गणनीयं सर्वैरपि सर्वत्र कण्ठरवेण प्रतिपाद्यमिति भावः । चरमे अर्वाक्तनाः अल्पे निहीनाः ये कतिपयाः चतुर्मुखादयोऽपीति भावः । तेष्वन्यतमस्य यस्यकस्यापीति भावः । स्वरूपं तथा सर्वमुखगणगणनीयं न भविता । सर्वेषामप्यतथात्वादिति भावः ॥

 पक्षे— भवांश्च उभयश्चान्यतरश्च एतेषां समाहारः तस्य भवदुभयान्यतरस्य । एतेषां शब्दानां स्वरूपं इह शब्दशास्त्रे