पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
128
अलंकारमणिहारे

 अच्युतः आश्रितरक्षणव्रतच्युतिविरिही भगवान् । तं श्रानिवासं न त्यक्ष्याम्येवेति सर्वं वाक्यं सावधारणमिति न्यायात् । विशः मनुजस्य 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । शपथः प्रतिज्ञा सुघटितश्चेत् सुदृढो यदि--

स त्वं प्रहर वा मा वा मयि व्रजं पुरंदर ।
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ॥

 इति विष्णुधर्मे अस्बरीषोक्तरीत्या भगवदैकान्त्यद्रढीयान् यदीति भावः । अयमेव सुपथः शोभनमार्गः भवति । अन्यः अस्मादितरः विपथः विमार्ग एव । यश्शपथः विघटितः शिथिलो भविता ऐकान्त्यात्प्रच्युतो भवितेति भावः ॥

एष निष्कण्टकः पन्था यत्र संपूज्यते हरिः ।
कुपथं तं विजनीयाद्गोविन्दरहितागमम् ॥

इत्यादिकमिह प्रत्यभिज्ञाप्यते । सुपथः विपथः इत्युभयत्रापि न पथिशब्देन समासः ‘न पूजनात्' इति समासान्तनिषेधात् । ‘पथस्संख्याव्ययादेः’ इति क्लीबताप्रसंगाश्च । किंतु ‘पथे गतौ' इत्यस्मात्पचाद्यचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति । तेन सह सु वि इत्यनयोस्समासः । तथाच त्रिकाण्डशेषः ‘वाटः पथश्च मार्गस्स्यात्’ इति । तेन प्रकृते न काऽप्यनुपपत्तिः ‘व्यध्वो विपथकापथौ' इति रभसश्चाह । अन्यत्र शपथः शपथशब्दः विशः विगतशकारस्सन् सुघटितः सु इत्याकारकवर्णेन घटितश्चेत् अयमेव शपथशब्द एव सुपथशब्दो भवति । अन्यः विपथः यः विशकारस्सन् विघटितः वि इत्याकारकवर्णेन युक्तस्स्यात् । अत्र प्रकृताप्रकृतश्लेषः सुपथत्वविपथत्वयोः पूर्वोत्तरवाक्यार्थाभ्यां समर्थनात्काव्यलिङ्गद्वयं परिसंख्या चैकवाचकानुप्रवेशेन संकीर्यन्ते ॥