पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
51
प्रत्यनीकालङ्कारसरः (‌६०)

पक्षे तापिञ्छमिति पदं भ्रंशोऽस्यास्तीति भ्रंशि । ता इति आत्मा स्वरूपं यस्य सः तात्मा मुखवर्णः प्रथमाक्षरं यस्य तत्तथाभूतं सत् पिञ्छं भूत्वा तापिञ्छमितिपदं अद्यताकारोत्सारणेन पिञ्छमिति निष्पद्येत्यर्थः ॥ सुगममन्यत् ॥

 यथावा--

 उरसापास्तं शौरेः कपाटमथ कटतया मदोन्नद्धम् । ऊर्ध्वं कमञ्चयन्ननु तदुरश्छादयति कङ्कटात्माऽहो ॥ १५०४ ॥

 कपाटं कवाटं ‘कवाटमररं तुल्ये' इत्यत्र कपाटमिति पाठमेव मुख्यतयाऽभ्युपेत्य कं शिरः पाटयतीति विग्रहः प्रदर्शितस्सुधायाम् । पक्षे कपाटमिति पदं च । अनयोस्तादात्म्यम् । शौरेः उरसा अपास्तं निरस्तं सत् 'कवाटवक्षाः परिणद्धकंधरः' इति कवाटस्योरस्सादृश्योक्तेस्तस्य तदपास्तत्वोक्तिः । पक्षे पास्तमिति भेदः । पाः पाकारः अस्तः निरस्तो यस्मिंस्तत्तथोक्तं सदित्यर्थः । कटतया गजगण्डतया “गण्डः कट' इत्यमरः । मदोन्नद्धं मदेन गर्वेण दानोदकेन च उन्नद्धं उद्वृत्तं सत् । अतएव कं शिरः ऊर्ध्वं अञ्चयत् उन्नमयदित्यर्थः । पक्षे ऊर्ध्वं अग्रभागे इति यावत् । कमञ्च यत् इति च्छेदः । कमञ्च कमित्याकारकं मान्तशब्दं च यत् प्राप्नुवत्सत् इणश्शतरि ‘इणो यण्' इति यण्। कङ्कट इत्यात्मा स्वरूपं यस्य तत् कङ्कटात्म कवचरूपं सत् ‘उरश्छदः कङ्कटकः' इत्यमरः । तदुरः भगवद्वक्षः छादयति । पक्षे कङ्कटात्मा कङ्कट इति निष्पन्नस्वरूपमित्यर्थः । कटशब्दस्यादौ कम् इत्यस्य न्यासे अनुस्वारे परसवर्णे च कङ्कटत्वेन निष्पन्नमित्यर्थः ॥