पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
311
वक्रोक्तिसरः (९६)

 अत्र इन्द्रोऽपि मया ग्रसितुं शक्य इत्यभिप्रायेण मुरेणोक्तस्य कबळयितुमित्यादेः शुना शुनकसदृशेन त्वया सीरः अर्कः शुना शुनकेन हलं वा ग्रसितुं न शक्यमिति भगवता अर्थान्तरस्य कल्पनया प्रत्युत्तरं प्रतिपादितम् । 'सीरोऽर्कहलयोः पुंसि' इति मेदिनी । सर्वमिदमविकृतश्लेषवक्रोक्तेरुदाहरणम् ॥

 विकृतश्लेषवक्रोक्तिर्यथा--

 श्लेषस्याविकृतत्वं च समभिव्याहृताक्षरापरित्यागेनार्थवर्णनम् । विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापाभ्यां भवति ॥

 असमस्सुशोभमानो जगदीशो वामदेव एवायम् । असमस्सुशोभितश्चेत्स एव जगदीश्वरो न संदेहः ॥ १९३५ ॥

 इदं शैववैष्णवयोस्संवादरूपं पद्यम् । तत्र असमः असदृशः सुशोभमानः देदीप्यमानः अयं अस्मदुपास्यः वामदेवः विरूपाक्ष एव जगदीश इति शैवेनोक्तम् । वैष्णवेन तु-- वासुदेव एव जगदीश इत्यभिप्रायेण समः मकारसहितः स न भवतीत्यसमः सुशोभितः च्यावितमकारस्थानकेन सुकारेण शोभितश्चेत् स एव वामदेवो जगदीशो न संदेह इति । वामदेवशब्दे मकारोद्वापं तत्रैव सुकारावापं च विधायार्थान्तरं श्लेषेण परिकल्पितम् ॥

 यथावा--

 बाणासुरवरदायी काशीपुरवहनपटुरयं परमः । वेदं पठात्र परमः क इति तदा वेत्सि किंनु बहुजल्पैः ॥ १९३६ ॥