पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
312
अलङ्कारमणिहारे

 अयमपि शैववैष्णवयोरेवोक्तिप्रत्युक्तिरूपः श्लोकः । काशीपुरस्य वहनं उद्धरणं रक्षणमिति यावत् । तस्मिन् पटुः वीणासुरवरदायी काशीपुरवहनपटुः अयं शिव एव परमः उत्कृष्ट इति शैवेनोक्तम् । वेदं पठ अत्र परमः क इति तदा वेत्सि 'तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् । अग्निरवमो देवतानां विष्णुः परमः' इति श्रुतिपठने परमः को वा स्यादिति त्वमेव जानासीति प्रतिवदता वैष्णवेन अत्र त्वदुक्तयोः बाणासुरवरदायी काशीपुरवहनपटुरिति पदयोः वे वकारस्थाने दं दकारं पठेति वकारोद्वापनेन तत्रैव दकारावापनेन च बाणासुरदरदायी काशीपुरदहनपटुरयं श्रीवासुदेव एव परम इत्यर्थस्य परिकल्पनादिदमपि विकृतश्लेषवक्रोक्त्युदाहरणमेव ॥

 यथावा--

 मीनेक्षणे त्यज रुषं कमनं पुरतस्स्थितं निरीक्षस्व । मन्दं जल्प शठात्रेत्यवनी श्रीशं तिरश्चकार रुषा ॥ १९३७ ॥

 इयं मानकलुषिताया भूदेव्याः प्रसादनाय भगवदुक्तौ तद्वक्रोक्तिः । मीनेक्षणे इत्यनेन निसर्गप्रसन्नलोचना त्वं नैव जात्वपि रोषाविललोचनेति द्योतितम् । पुरतः स्थितं प्रार्थनार्थमिति भावः । कमनं त्वां कामयितारं वल्लभं मां न तूदासीनतयाऽवस्थितमिति भावः । निरीक्षस्वेति भगवत्कर्तृकप्रसादनोक्तिः । मन्दं जल्प शठात्रेति भूदेव्याः प्रत्युक्तिः । हे शठ गूढविप्रियकारिन् अत्र मम संनिकर्षे मन्दं जल्प न तूच्चैः, विधाय विप्रियमतिमात्रं निर्भरानुरागमेदुर इव स्वैरं मा वादीः जाने त्वामिति भावः ।