पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
294
अलङ्कारमणिहारे

तङ् । ‘श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः' इति सम्प्रदानसंज्ञायां कृष्णशब्दाच्चतुर्थी ॥

 यथावा--

 शिथिलयति करेणाग्रिमभागेऽन्दुकबन्धमेष पुन्नागः । हृष्येच्च तद्वशाऽसाविति शौरिगिरा नतानना गोपी ॥ १८९९ ॥

 इयं गोपतरुणीपयोधरपरिष्वङ्गेच्छोर्भगवतश्शौरेः करेणुमुद्दिश्योक्तिः । एषः पुन्नागः मतङ्गजपुङ्गवः अग्रिमभागे पुरःप्रदेशे करेण शुण्डादण्डेन अन्दुकबन्धनं निगळबन्धं स्वस्य करिण्याश्चेति भावः । ‘अन्दुको निगळोऽस्त्री स्यात्' इत्यमरः । शिथिलयति । तत् तस्मात् बन्धविस्रंसनाद्धेतोः असौ वशा करिणी च ‘करिणी धेनुका वशा' इत्यमरः । हृष्येत् स्वैरविहारलिप्सया प्रमोदेत । गूढार्थस्तु-- अग्रिमभाः गेन्दुकबन्धं इति छेदः । अग्रिमा श्रेष्ठा भाः दीप्तिः यस्य स तथोक्तः । एषः पुन्नागः पुरुषश्रेष्ठ इति स्वस्यैव साहसिकत्वप्रत्यायनायान्यत्वेन निर्देशः । करेण हस्तेन गेन्दुकयोः कन्दुकत्वेनाध्यवसितयोः पयोधरयोः बन्धं कञ्चुळीबन्धनं शिथिलयति श्लथयतीति वर्तमानसामीप्ये भविष्यति वर्तमानवन्निर्देशः । असौ त्वमिति वक्तव्ये परवञ्चनायादश्शब्देन गोपिकाया निर्देशः । एवमनुपदवस्यमाणतच्छब्दप्रथमपुरुषयोरप्यूह्यम् । तद्वशा तस्य कञ्चुळीविस्रंसयितुर्ममेति भावः । वशा आयत्ता सती हृष्येत् । रतिसुखेनानन्देदित्यर्थः । इति शौरिगिरा भगवद्वचनाकर्णनेनेति यावत् । गोपी नतानना अभूत् । इदमपि परवञ्चनाय गुप्ताविष्करणमेव ॥