पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/११९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
107
काव्यलिङ्गसरः (६२)

निर्वेदः तल्लाभेनानन्दः । अत्र निर्वेदानन्दयोर्द्वयोर्विरुद्धयोर्भगवद्विलोकनमेकमेव हेतुः ॥

 अत्र दीक्षिताः-- ननु साभिप्रायपदार्थवाक्यार्थविन्यसनरूपात्परिकरादस्य काव्यलिङ्गस्य को भेद इतिचेत् श्रूयताम् । परिकरे पदार्थवाक्यार्थबलात्प्रतीयमानावर्थौ वाक्योपस्कारकतां भजतः । काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजत इति भेदः । तथाहि ‘सुधांशुकलितोत्तंस’ इत्यादौ विशेषणबलात्प्रतीयमानस्य तापनिवारकामृतकिरणसन्निधानस्य तापहरणरूपवाच्योपस्कारकता, न तु पदार्थवाक्यार्थयोस्तत्रोपस्कारकता । अतस्तत्र काव्यलिङ्गसंभवात्परिकर एव युक्तः । काव्यलिङ्गे तु पदार्थवाक्यार्थयोरेव हेतुत्वं न तु प्रतीयमानार्थापेक्षा । ‘सुखालोकोच्छेदिनि । अग्रेऽप्यनतिमान्' इत्यादिपदार्थवाक्यार्थहेतुककाव्यलिङ्गोदाहरणे च सुखालोकोच्छेदित्वोत्तरकालानमनरूपाभ्यां पदार्थवाक्यार्थाभ्यामेव प्रतीयमानार्थनैरपेक्ष्येण वाच्यार्थस्य समर्थनादुभयोर्विविक्तविषयतया भेद इति वदन्ति । एवं प्राचामनुरोधेन काव्यलिङ्गं प्रदर्शितम् ॥

 रसगङ्गाधरकारस्तु-- "अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम् । उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम् । अनुमानार्थान्तरन्यासयोर्वारणायानालिङ्गितान्तम् । उपमादिवारणाय उपपादकत्वेनेत्यन्तम् । पञ्चम्यादिशब्दप्रतिपादितहेतुताकस्य हेतोरेव वारणायोपपादकत्वेन विवक्षित इति । न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम् । तेन ‘भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्यः, इत्यादौ नायमलंकारः ।