पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
108
अलङ्कारमणिहारे

गम्यमानहेतुताकस्यैव हेतोस्सुन्दरत्वेनालंकारिकैः काव्यलिङ्गताया अभ्युपगमात् । तच्च सुबन्ततिङन्तार्थत्वाभ्यां तावद्द्विविधम् । आद्यमपि शब्दान्तरार्थविशेषितशरीरं शुद्धैकसुबन्तरूपं चेति द्वेधा । अत्राप्याद्यं साक्षात्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेति द्विभेदम् । तिङन्तार्थभूतमपि साक्षात्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेतिद्विप्रकारम् । शुद्धभेदस्तु तिङन्तार्थस्य न संभवति । क्रियायाः कारकविशेषितत्वावश्यंभावात्" इत्याह । तत्प्रकारेणोदाहरणानि--

 अञ्जलिमात्रचिकीर्षोस्त्वं जगधिकां श्रियं ददद्भगवन् । जानन्नालं तदिदं वदान्यमूर्धन्य इति नुतौ त्रपसे ॥ १५९२ ॥

 अत्र ह्यनितरसाधारणत्वेन वर्णितायाः भगवतःश्रीनिवासस्य वदान्यमूर्धन्यताप्रयोज्यलज्जया आपाततोऽघटमानाया उपपादनाय अञ्जलिचिकीर्षुमुक्त्यैश्वर्यदानसमानाधिकरणः पर्याप्त्यभावस्सुबन्तमात्रार्थविशेषितात्मा सुबन्तार्थो हेतुत्वेनोपनिबद्धः ॥

 ननु ‘लक्षणहेत्वोः' इति सूत्रविहितशत्रन्तेन जानन्नित्यनेन साक्षाद्धेतोरभिधानात्कथंकारं काव्यलिङ्गम् । तादृशहेतुवाचकपदेन हेतोरभिधाने तदनवतारस्य सर्वालंकारिकसंप्रतिपन्नत्वादिति चेन्मैवम् । तद्विहितश्शता न हेतुवाचकः येनैवं शङ्क्येत । किंतु तद्द्योतकः । तथाच तत्सूत्रशेखरग्रन्थः । ‘इह लक्षणादि द्योत्यं शत्राद्यर्थस्तु कर्त्रादिरेव' इति । एवं शानजन्तहेतुस्थलेऽपि बोध्यम् । अतएव ‘यदा पुनः पदार्थस्य हेतुत्वं तदा यदि तृतीयान्तं पञ्चम्यन्यं वा पदमुपादीयते तदा हेतुमात्रं नालंकारः, यदा तु