पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१०९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
97
काव्यलिङ्गसरः (६२)

कसङ्गतिं जहत् उक्त एवार्थः । अपरित्यक्ताद्योत्तमवर्णः अपरित्यक्तौ अनुसृताविति यावत् । तादृशौ आद्यौ स्वापेक्षया पूर्वौ उत्तमौ स्वस्माद्वरिष्ठौ वर्णौ ब्रह्मक्षत्रवर्णौ येन स तथोक्तः । ब्रह्मक्षत्रवर्णमानयितेति यावत् । अत एव सूरीभवन् असूरिस्सूरिस्संपद्यमानो भवन् ब्रह्मविद्भवन् त्वदङ्घ्रौ रुचिरभिरतिर्यस्य स तथोक्तः आसीत् । पक्षे सूर्यकरशब्दः क्वचन अर्यः अविद्यमानर्यवर्णः भूत्वा अनुकसङ्गं अनु अनन्तरविद्यमानस्य कस्य कवर्णस्य सङ्गं जहत् र्यक इति वर्णसमुदयं त्यजन्नित्यर्थः । अपरित्यक्तौ आद्यः प्राथमिकः उत्तमः अन्तिमश्च आद्योत्तमौ वर्णौ सूर इत्याकारकौ वर्णौ येन स तथोक्तः ‘उत्तमौ प्रवरान्तिमौ' इति रत्नमाला । ‘उत्तमं च नैदाघम्’ इत्यादयः प्रयोगाश्च । अत एव सूरीभवन् असूरस्सूरस्संपद्यमानो भवन् सूर्यकरशब्दः र्यवर्णत्यागे सूर इति निष्पन्न इत्यर्थः । त्वदङ्घ्रेः रुचिरिव रुचिर्यस्य स तथोक्त इति वस्तुस्थितिः । शब्दार्थयोस्तादात्म्येन सूरशब्दस्य श्रीचरणतुल्यत्वमित्यवधेयम् । अत्र सूर्यकरस्य सुरीभवनमप्रसिद्धतया समर्थनसापेक्षमनेकपूर्वपदार्थसमर्थितम् । श्लेषमूलाभेदातिशयोक्त्युत्तम्भितत्वादिकश्चमत्कारस्तु व्यक्त एव ॥

 यथावा--

 स्वर्णं स्वस्मादुत्तमवर्णं श्रीदेहमधमवर्णं स्वं च । अवयत्तमुत्तमर्णं विदधत्स्वस्याधमर्णमभवत्सर्णम् ॥ १५७७ ॥

 स्वर्णं कनकं कर्तृ । श्रियो देहं दिव्यविग्रहं स्वस्मात् उत्तमवर्णं स्वं च आत्मानं च अधमवर्णं निकृष्टवर्णं अवयत् जान-

 ALANKARA--III.
13