पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१०८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
96
अलङ्कारमणिहारे

भवता दुग्धसागरः दुग्धसारः दुग्धः विरेचितः सारः स्थिरांशः यस्य स तथोक्तः समतानि । सारतमश्रीकौस्तुभादानेन दुग्धसागरस्याखिलस्सारोऽपि दुग्ध इति भावः । पक्षे दुग्धसागरशब्दः रूपेगमथनत इत्यत्र गथनत इति छेदे गस्य गकारस्य मथनथः विलोपनादिति यावत् दुग्धसारः दुग्धसारशब्दः समतानि । गकारोत्सारणेन तथा निष्पादित इत्यर्थोऽपि चमत्कारी । अत्रापि अगमथनपूर्वककौस्तुभरमासमादानरूपैर्बहुभिः पदार्थैः दुग्धसागरस्याप्रसिद्धं दुग्धसारत्वं समर्थ्यते ॥

 यथावा--

 सूर्यकरः क्वचनार्यो भूत्वाऽनुकसङ्गमम्ब जहदासीत् । अपरित्यक्ताद्योत्तमवर्णस्सूरीभवंस्त्वदङ्घ्रिरुचिः ॥ १५७६ ॥

 हे अम्ब ! सूर्यकरः भानुकिरणः क्वचन आर्यः कुलीनः न्याय्यः साधुर्वा भूत्वा ‘गौर्यामार्या त्रिषु त्वेष कुलीनन्याय्यसाधुषु' इति रत्नमाला । अनुकानां कामुकानां अनुकामयत इत्यर्थे ‘अनुकाभिक' इत्यादिना अनोः कन्निपात्यते ‘कमुके कामिताऽनुकः' इत्यमरः । विषयरसलालसानामिति यायत् । सङ्गं संबन्धं जहत् त्यजन् ‘नाभ्यस्तात्' इति नुन्मिषेधः । अपरित्यक्तः आद्यः प्रथमभवः अत एव उत्तमः श्रेष्ठः वर्णो यस्य स तथोक्तः अनुपेक्षितब्राह्मणवर्णः आभ्यां प्रतिकूलवर्जनानुकूलावर्जने दर्शिते । ब्राह्मणवर्णोचिताचारशील इति यावत् । यद्वा क्वचनार्य इत्यत्र क्वचन अर्यइति छेदः। अर्यः वैश्यो भूत्वा ‘अर्यस्स्वामिवैश्ययोः इति निपातनात्साधुः 'स्यादर्यस्स्वामिवैश्ययोः' इत्यमरः । अनु-