पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
82
अलंकारमणिहारे

मेव हि स्मृतिसंततेरविच्छेदः । अनिष्टेत्यनेन 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य' इति श्रुत्यर्थस्सूच्यते । तथाहि तदर्थः-- एष उपासकः एतस्मिन् परमात्मनि ध्यानस्य अन्तरं विच्छेदं अरं अल्पमपि यः कुरुते तस्य भयमुद्भवति, विदुषो ब्रह्मोपासननिष्ठस्य तदतिरिक्तविषयस्पृहया निरन्तरं मननमकुर्वतः तदेव अमननं भयं, न हि तदपेक्षयाऽन्यद्भयमस्ति । उक्तं च महर्षिभिः--

यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥

इत्यादीति । ‘हानिः इष्टहानिः, छिद्रं अनिष्टप्राप्तिरन्ध्रं, भ्रान्तिः तत्कृतचित्तस्खलनं, विक्रिया तेनाङ्गानामवशादयथायथव्यापारः' इति व्यासार्याः ।

 पक्षे-- गोत्रे ‘अपत्यं पौत्रप्रभृति गोत्रम्’ इत्युक्ते अपत्यत्वेन विवक्षिते पौत्रादिगोत्ररूपार्थे नियमात् ‘एको गोत्रे’ इति सूत्रेण कृतात् गोत्रे एक एव प्रत्ययस्स्यादिति नियमात् एकः आपत्यप्रत्ययः अपत्यार्थे विहितः प्रत्ययः यदोत्यध्याहारः । यदि कृतः कृतश्चेत् तदानीं शौरौ शौरिशब्दे, इदमुपलणमौपगवादीनां शब्दानाम् । अनिष्टा अन्यप्रत्ययपरंपरा नोत्पद्येत । अयं भावः-- शूरस्य गोत्रापत्यमित्यर्थे शूरशब्दात् ‘बाह्वादिभ्यश्च' इत्यनेन ‘ऋष्यन्धकवृष्णिकुरुभ्यश्च' इति विहिताणपवादके इञि कृते पुनः ‘तस्यापत्यम्' इत्यण्, ततः पुनस्तस्यापत्यमिति इञ्, इत्याद्यनिष्टप्रत्ययपरंपरा नोत्पद्यते । एवं उपगोर्गोत्रापत्ये अणि औपगवः ततः ‘अत इञ्' इति इञ् औपगविः, ततः ‘यञि-