पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
83
श्लेषसरः (२८)

ञोश्च’ इति फक् औपगवायन इत्याद्यनिष्टप्रत्ययपरंपरा नोत्पद्येत ‘एको गोत्रे' इति नियमादिति । अत्र--

गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परंपरा ।
यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥
अपत्यं पितुरेव स्यात्ततः प्राचामपीति च ।
मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥

इति कारिकाऽर्थोनुसंधेयः । इति विश्रम्यते विस्तरभयात् ॥

 यथावा--

 यो देवेज्याशीलस्संमार्ष्ट्यखिलं ग्रहं पवित्रेण । स्वकरधृतेनासाविह विवक्षितानुग्रहैकतानो हि ॥

 अत्र अपामार्जनोक्तवराहनृसिंहादिभगवन्मन्त्रनिष्ठस्य पुसः प्रस्तुतस्य यायजूकस्याप्रकृतस्य च श्लेषः । तथाहि-- इह अस्मिन् लोके यः पुमान् देवेज्याशीलः देवस्य भगवतः इज्या जपस्तुत्यादिरूपमाराधनं ‘वाग्यज्ञेनार्चितो देवः'--

इति वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥

इत्यादिभिर्जपस्तुत्यादेराराधनरूपताभिधानात् । देवेज्या शीलं स्वभावो यस्य स तथोक्तः । ‘इज्या स्त्री यागदानार्चासंगेषु’ इति रत्नमाला । असौ स्वकरधृतेन पवित्रेण कुशेन जात्येकवचनं, 'मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्यशान्तिकृत्’ इत्युक्तेः । यद्वा--‘अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषिणाऽभ्युदीरिताः इत्युक्तरीत्या स्वहस्तविन्यस्तेन मन्त्रपूतेनाम्भसा ।

दधिकलशगोमयाम्बुषु कुशताम्रब्रह्मसूत्रमन्त्रेषु ।
हेम्न्यर्थे च पवित्रं त्रिषु पूते पुंसि शंभुपावकयोः ॥