पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
56
अलंकारमणिहारे

इति तुदादौ पठितः धातुरपि अनिट् अविद्यमानः इडागमो यस्य स तथोक्तः । गण्यः अनिट्सु गणनीयः स्यादिति वेद वेद्मि । ‘विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते’ इत्यनिट्कारिकासूक्तधातोरपि पाठात् ‘एकाच उपदेशेऽनुदात्तात्' इति इण्निषेधादिति भावः । विद् धातुरपीत्यपिशब्देन श्यन् श्नम् विकरणपठितयोस्सत्ताविचारणार्थकयोर्विदधात्वोरिवास्यापीण्निषेधोनिष्प्रत्यूह इति ध्वनितम् । तावपि हि धातू ‘विद्यतिर्विनद्' इत्यनिट्कारिकासु पठ्येते । अस्य विदेरनुदात्तत्वं द्रढयति-- दान्तत्वमित्यादिना । हि यस्मात् अनिशं दान्तत्वं द इति वर्णोऽन्ते यस्य तत्त्वं ईयुषः देत्यत्र अकार उच्चारणार्थः । अस्य विदधातोः आत्मा स्वरूपं सकृत् एकवारमेव विभातः वि इत्याकारकवर्णेन भातः प्रकाशितः विदेरेवंविधस्वरूपत्वेनैकाच्त्वादुक्त इण्निषेधो युक्त एवेति भावः ॥

 यथावा--

 ये कुशला अपि सन्तो न तद्धितप्रत्ययादयो दृष्टाः । इत एते लुप्यन्ते न तद्धितप्रत्ययादयस्त्वेते ॥ ८५१ ॥

 अत्र प्रकृतानां भगवदभक्तभक्तानां 'लशक्वतद्धिते, तस्य लोपः' इति सूत्रार्थस्य च श्लेषः । तथाहि-- ये जनाः कुशलाः कृतिनस्सन्तोऽपि । यद्वा-- ये सन्तः मनीषिणः कुशला अपीति योजना । ऋग्वेदाद्यपरविद्यानिष्णाता अपीत्यर्थः । तद्धितप्रत्ययादयः तस्मै प्रकृताय भगवते हिताः प्रीत्याधायकाः प्रत्ययो ज्ञानं आदिर्येषां ते प्रत्ययादयः आदिशब्देन भक्तिवैराग्यादीनां ग्रहणम् । तद्धिताः प्रत्ययादयो येषां ते तथोक्ताः भगवदभिमतज्ञानभक्ति-