पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
55
श्लेषसरः (२८)

यान् साधुशब्दादयिसुन् । अतिशयेन साधुरिति प्रथितस्सन् लसति । सूत्रकृता आदेशमात्रविधानेन साधुः कृतः । भाष्यकृता त्वया तु तदनुगुणस्थानिनोऽपि प्रदर्शनेन साधीयान्कृत इति भावः ।

 यथावा--

 अर्हः परंशमाप्तुं गण्यो धातुरपि वेदविदनिट् स्यात् । दान्तत्वमीयुषोऽनिशमात्माऽस्य सकृद्विभातो हि ॥ ८५० ॥

 अत्र ब्रह्मविदः प्रकृतस्य विदधातोरप्रकृतस्य च श्लेषः। तथाहि-- परं निरतिशयं शं सुखं परब्रह्मानुभवानन्दमित्यर्थः । आप्तुं अर्हः अत एव धातुः ब्रह्मणोऽपि गण्यः श्लाघ्यः वेदवित् ब्रह्मवेत्ता अनिट् निट् निशा तत्सदृशमज्ञानमिति यावत् सा न विद्यते यस्य स तथोक्तः स्यात् । तत्र हेतुः दान्तत्वमित्यादि । हि यस्मात् अनिशं दान्तत्वं ‘शान्तो दान्त उपरतः' इत्याद्युक्तं गुणविशेषं ईयुषः अस्य ब्रह्मविदः आत्मा अन्तर्यामी सकृद्विभातः सर्वदा अनावृततया प्रदीप्तः । तस्मादस्य ब्रह्मविदः अज्ञानगन्धोऽपि नास्तीत्यर्थः । अत्र ‘तस्माद्वा एत सेतुंतीर्त्वा अपि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येष ब्रह्मलोकः' इति दहरविद्यागतश्रुत्यर्थस्संगृहीतः । अस्याश्श्रुतेरर्थश्चोपनिषद्भाष्यकारैरेवं वर्णितः-- ‘परमात्मानं प्राप्तस्य नक्तं तमिस्रा रात्रिरपि दिवैव । तस्याज्ञानप्रसक्तेरभावात् अहस्सदृशी रात्रिः अहोरात्रयोर्न विशेषः । तत्र-- हेतुः सकृद्विभातः सदाब्रह्मस्वरूपप्रकाशस्यानावृततया भासमानत्वात्' इति ॥

 पक्षे-- परं स्वस्मात्परं शं 'तुदादिभ्यश्शः' इति विहितं शप्रत्ययं आप्तुं अर्हः। वेदेतिभिन्नं पदम् । विद् 'विद्ल् लाभे'