पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
49
श्लेषसरः (२८)

इत्याद्युक्तरीत्या भवदेकशेषत्वं दधते त्वयि प्रलीयन्त इत्यर्थः । अखिलेश्वरेतिसंबोधनमीदृशविशेषमभिसंधायैवेति ध्येयम् ॥

 अप्रकृतपक्षे तु-- यो ब्रह्मा ब्रह्मशब्दः यश्च शिवः शिवशब्दः परेण उत्कृष्टेन भवता भवच्छब्देन । उत्कर्षश्चास्य वक्ष्यमाणरीत्यासर्वैस्सहोक्तौ स्वैकशेषत्वकृत इति ध्येयम् । सहोक्तौ इकारान्तसप्तम्येकवचनमिदम् । सहवचने सतीत्यर्थः । अन्ते विग्रहावसाने भवदेकशेषतां भवच्छब्दैकशेषतां दधते धत्ते । ‘दध धारणे' भौवादिकादस्माल्लट्प्रथमैकवचनम् । ब्रह्मशिवशब्दाभ्यां प्रत्येकमन्वेति । ‘त्यदादीनि सर्वैर्नित्यम्' इत्यनुशासनात् । ब्रह्मा भवांश्चेति शिवो भवांश्चेति च विग्रहे भवच्छब्दस्यैव शिष्यमाणत्वादिति भावः । ये अन्ये तदादिमाः तद् यद् एतद् इत्यादयः तेऽपि शब्दाः परेण त्यदादिगणे सर्वेभ्यः परत्र पठितेन भवता सहोक्तौ अन्ते विग्रहावसाने भवदेकशेषतां भवच्छब्दमात्रशेषतां दधते बिभ्रति । ‘डु धाञ् धारणपोषणयोः' इति जौहोत्यादिकाद्धातोर्लट्प्रथमबहुवचनम् । 'त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते' इति । स च यश्च एष च भवांश्चेति विग्रहे भवन्त इति परभूतभवच्छब्दस्यैव शेषणादिति भावः ।

 यथावा--

 उपसर्गविरलभावो भ्वादौ जनितासदावलीडागमवान् । तान्तः पलायितस्स्याद्धातुर्भवतोहितोय एवानन्त ॥ ८४७ ॥

 अत्र भगवतश्श्रीनिवासस्य प्रकृतस्य पतञ्जलेरप्रकृतस्य च श्लेषः । हे! अनन्त! भगवन्! धातुः धारयितुः पोष्टुश्च "एष धाता विधाता च" इत्युक्तेः । धाञश्शता । भवतः तव भ्वादौ भूलोकादिलोके जनिता उत्पन्नः । जनेस्तृच् । यः चेतनः

 ALANKARA II
7