असदावलीडागमवान् असतां खलानां आवली पङ्क्तिः तस्याः ईशः प्रधानभूताः । ईट्छब्दोऽयम् । तेषां आगमस्संसर्गः तद्वान् असत्संसर्गदूषित इत्यर्थः । यद्वा-- असदावलेः इडाः वाचः "भूगोवाचस्त्विडा इलाः” इत्यमरः । तदागमवान् नित्यमसदालापशालीत्यर्थः । नित्ययोगे मतुप् । अथवा असदावलेः इडाः वाचः ताभिः आगमवान् शास्त्रवान् । ता एवागमश्शास्त्रं तद्वान्वा । असद्वाच एवास्यानुष्ठानविधायिन्य इति भावः । अत एव अहित एव स्या । दुरन्तदुष्कर्मवशंवदत्वनिबंधनासत्संसर्गदूषितविवेकितया त्वयि विद्वेषवानेव भवेदित्यर्थः । भ्वादौ जनितः यः असदावलीडागमवान् सन् धातुर्भवतः अहित एवेति योजना । अर्थस्तु तुल्य एव । य इत्यस्योत्तरवाक्यगततया न पूर्ववाक्ये तद्वृत्तोपादानावश्यंभावः । सः चेतनः उपसर्गविरलभावः उपसर्गैः उपप्लवैः ‘उपसर्ग उपद्रवे । प्रादौ च रोगभेदे च' इति हेमचन्द्रः । विरलः पेलवः अतिमात्रलघुरित्यर्थः, भावः सत्ता स्वभावः अभिप्रायः चेष्टा जन्म वा यस्य स तथोक्तस्सन् । "पेलवं विरलं तनु । भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मस्वि" इति चामरः । अत एव तान्तः ग्लानः पलायितश्च स्यात् । दीनः क्वाप्यवस्थितिमलभमानो यत्र क्वापि धावेदित्यर्थः । भगवद्विद्वेषिणः क्व नु श्रेयस्संपद्येतेति भावः।
पक्षे-- हे! अनन्तेति पतञ्जलित्वेनावतीर्णस्य शेषस्य संबोधनं । भवता ऊहितः अय इति च्छेदः । भवता, त्वया ऊहितः विचारितः । भवतः हितः अय इति वा छेदः । भवतः हितः ज्ञातः पथ्य इति वा । 'हि गतौ' कर्मणि क्तः । ये गत्यर्थास्ते ज्ञानार्थाः। ‘हितं पथ्ये गते धृते' इति मेदिनी । भवत इति शेषे षष्ठी ‘न लोक' इति निषेधस्तु कारकषष्ठीविषयः । यद्वा-- ‘मतिबुद्धि’