पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
485
विशेषालंकारसरः (४६)

 अत्यन्तं सुरभिणां चम्पककुसुमानां गन्धेन मादनं जनमानसविकारोत्पादकम् । पक्षे अतिसुरभि अतिमात्रमनोज्ञं गन्धमादनं तन्नामानं गिरिम् । रत्नानि सानुषु यस्येति तं रत्नसानुम् । पक्षे सुमेरुम् । चित्राणि विस्मयावहानि कूटानि शिखराणि यस्य तत्, चित्रकूटनामगिरिं च । ईदृशमहिशैलं सृजता विधिना क्षितौ बहवश्शैलाः कृताः सृष्टाः ॥

 यथावा--

 सुखपवनसर्वतोमुखशुचिविपुलं फणधराचलं सृजता । अन्यानि पद्मजनुषा युगपद्भूतानि ससृजिरे पञ्च ॥ १३८४ ॥

 खं नभः, पवनः, सर्वतोमुखं सलिलं, शुचिः अग्निः, विपुला भूश्च एतेषां समाहारः, तत् शोभनं यस्य तत् सुखपवनसर्वतोमुखशुचिविपुलम् । पक्षे सुखं पान्ति रक्षन्तीति सुखपानि सुखावहानि वनानि काननानि यस्मिन् सः, सर्वतोमुखः विश्वतश्शिखरवान्, शुचिः शुद्धः, विपुलः विशालश्चेति विशेषणानां कर्मधारयः । ईदृशं फणधराचलं सृजता । अन्यत्सुगमम् ॥ अत्र विलक्षणानां भूतानां युगपत्सृष्टेश्श्रौतः क्रमो न विवक्षितः ॥

 यथावा--

 महितमहारम्भाढ्यां बहुशोभाभृत्कृतस्थलां सृजता । अहिशैलधरां धात्रा विहिताऽनेकाप्सरस्सृष्टिः ॥ १६८५ ॥

 महिताः महानां आरम्भाः तैः आढ्यां संपन्नाम् । पक्षे महिता पूजिता महती रम्भा तन्नामा अप्सराः तया आढ्याम् । बहुशः