पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
486
अलंकारमणिहारे

भाभृन्ति कृतानि स्थलानि यस्यास्ताम् । पक्षे बहुशोभां बिभर्तीति बहुशोभाभृत् कृतस्थला नामाप्सराः यस्यां सेति । अहिशैलधरां सृजता धात्रा अनेकासां अप्सरसां स्वर्वेश्यानां सृष्टिः, पक्षे अनेकेषां अप्सरसां जलाशयानां सृष्टिः विहितेति ॥ अत्र 'अतिसुरभिगन्धमादनम्' इत्याद्युदाहरणत्रये शेषाद्रिसृष्टिरूपकिंचित्कार्यारम्भेण नानाविधशैलादिसर्जनरूपदुष्करतरकार्यान्तरनिष्पादनं श्लेषोत्तम्भितं निबद्धम् । मध्यपद्ये रत्नावळी चेति विशेषः ॥

इत्यलंकारमणिहारे विशेषालंकारसरः षट्चत्वारिंशः.



अथ व्याघातालंकारसरः. (४७)



तत्कार्यसाधनं वस्तु तद्विरुद्धस्य साधनम् ।
क्रियते चेत्तदाख्यातो व्याघातोऽसावलंकृतिः ॥

 यद्वस्तु यत्कार्यसाधनतया जगति विज्ञातं तद्वस्तु केनचित्तद्विरुद्धकार्यसाधनं क्रियते चेत् स निष्पादितकार्यविघातकत्वाद्व्याघातो नामालंकारः ॥ यद्वा-- यद्वस्तु यत्साधनतया केनचिदुपात्तं तद्वस्तु अन्येन तत्प्रतिस्पर्धिना तद्विरुद्धसाधनं क्रियते चेत् सोऽपि व्याघात इति द्विप्रकारोऽयम् ॥

 तत्राद्यः प्रकारो यथा--

 महतापत्प्रभवरजोविभवेनाक्षोभि येन ज-