पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
432
अलंकारमणिहारे

थोक्ता सती तच्युता तस्मादभीप्सितात् भ्रंशं प्राप्ता सती तुलाप्त्यैव त्वल्लक्ष्मीसाम्यलाभेनैव धन्या परमाभीप्सितालाभेऽपि तावतैव कृतकृत्येति भावः । तुलसीभूयं तुलसीत्वं ‘भुवो भावे' इति भावे क्यप् । गतैव ते तव हृद्या हृदयस्था हृदयप्रिया च आसीत् । पक्षे अतसीति शब्दव्यक्तिः अतच्च्युता अताभ्यां अकारतकाराभ्यां च्युता तद्रहितेत्यर्थः । तच्च्युतेत्यत्र ‘अनचि च' इति पाक्षिकं चकारस्य द्वित्वमर्थान्तरानुगुण्यायैष्टव्यमित्यसकृदवोचाम । तुलाप्त्या अकारलकारस्थाने क्रमेण तुवर्णलवर्णघटनया तुलसीभूयं गता तुलसीशब्दत्वं प्राप्ता सती हृद्या आसीत् । अत्र अतस्याः भगवल्लक्ष्म्या अपि श्रेष्ठ्यमीप्सोः तुलसीत्वमनभीप्सितमात्रं न तूत्कटानिष्टमिति तदप्राप्त्या केवलेष्टानवाप्तिरेव ॥

 यथावा--

 भावत्कचरणतटिनीभासर्वधुरीणतामभीप्सन्ती । भारत्यवाक्छिरास्स्यादपि तस्यास्तीरभैवदेव स्यात् ॥ १३०० ॥

 हे देव ! भारती सरस्वती भावत्कचरणतटिन्याः गङ्गायाः भा प्रभा तस्याः सर्वधुरावोढृतां, सर्वधुरां वहति सर्वधुरीणं तस्य भावः तत्ता 'वहति’ इत्यर्थे ‘खस्सर्वधुरात्’ इति खः । अभीप्सन्ती सती अवाक्छिरास्स्यादपि तस्याः त्वच्चरणतटिन्याः तीरभैव स्यात् । महताऽपि प्रयासेन तत्तीरसदृशप्रभैव स्यान्न तु तत्तुल्यप्रभेति भावः । पक्षे भारतीति शब्दव्यक्तिः विलोमा चेत्तदा तीरभेत्येव निष्पद्येतेत्यर्थः । अत्रापि भगवच्चरणतटिनीशोभाभीप्सोर्भारत्याः तत्तीरदीप्तिलाभोऽनभीप्सितः, न तूत्कटानिष्टरूप इति केवलेष्टानवाप्तिरेव ॥