पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
433
विषमालंकारसरः (४०)

 यथावा--

 तव केतकी कपोलश्रियमिच्छन्ती स्वमम्ब तं वर्णम् । जहती केकी भूत्वा चिकुरकलापश्रियं परमवाप्नोत् ॥ १३०१ ॥

 स्वं स्वकीयं तं लोकोत्तरतया प्रसिद्धं वर्णं गौरवर्णम् । पक्षे स्वं स्ववाचकपदघटकं तं तमित्याकारकं वर्णं अक्षरं जहती सती केकी मयूरो भूत्वा । पक्षे स्ववाचककेतकीशब्दः तकारापसारणात् केकीति निष्पन्न इत्यर्थः, वाच्यवाचकतादात्म्यवैभवात् । चिकुरकलापश्रियं कचकलापलक्ष्मीं, स्पष्टमन्यत् । अत्र केतक्याः अनभीप्सितश्रीकचकलापशोभालाभेऽपि तस्यानिष्टत्वाभावात्स्वाभीष्टलक्ष्मीकपोलद्युत्यलाभमात्रमिति केवलेष्टानवाप्तिरिव । लक्षणे अनिष्टावाप्तिरित्यत्र इष्टपदेन समस्यमानस्य नञः 'असुरः अधर्मः अशुभं' इत्यादाविव विरोधोऽर्थः, न तु ‘अमानुषः अनश्वः' इत्यादाविव तद्भिन्नत्वम् । तेन अनिष्टमनर्थरूपमिति सिद्ध्यति । तथा च तादृशानिष्टप्रतिलम्भ एव विषमं, न त्विष्टभिन्नस्य यस्यकस्यचिदुदासीनस्येति रहस्यम् । तथैव प्राक्तनबहूदाहरणदर्शनात् ॥

 यत्रानिष्टप्राप्तिरिष्टानवाप्तिर्वा श्लेषमहिम्नैव प्रतीयते न वस्तुतः तत्रापि विषमालंकारो भवत्येव । यथा--

 मा भूत्क्वापि पराभव इति ये जगतः प्रभुं भजन्ति त्वाम् । बत पुष्कराक्ष तेषां भवता क्रियते पराभवप्राप्तिः ॥ १३०२ ॥

 हे पुष्कराक्ष ! क्वापि पराभवः मा भूदिति ये त्वां भजन्ति तेषां पराभवप्राप्तिः भवता क्रियत इति विरोधः । परा

 ALANKARA II
55