पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४००

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
389
विषमालङ्कारसरः (४०)

नीरं येन तत्तथोक्तं च सत् । बहुव्रीहौ शेषाद्विभाषा' इति कप् । पुनः प्रहारभिया जले निमग्नमित भावः । शलूकं ‘सौगन्धिकं तु कह्लारम्’ इत्युपक्रम्य ‘शालूकमेषां कन्दस्स्यात्' इत्यमरः । शल्यते शलति वा ‘शल चलनसंवरणयोः’ ‘शलिमण्डिभ्यामूकण्' इति ऊकण्प्रत्ययः । इदं च सुधायां स्पष्टम् । पक्षे मालूरमिति पदं एकस्य आदेः प्राथमिकस्य माकारस्य अभिघातात् ध्वंसनं प्राप्य शातं शां शाकारं अतति सततं गच्छतीति तथोक्तं ‘अत सातत्यगमने' कर्मण्यण् । श्रितनीरकं निर्गमितो रः रेफः येन सः नीरः, नीरः कः ककारः श्रितो येन तत्तथोक्तं च लत् , माकारस्थाने शाकारं रेफस्थाने ककारं च प्राप्तं शालूकमिति निष्पन्नमित्यर्थः । अत्र मालूरस्य श्रीकुचाभिभवनरूपेष्टानवाप्तिः अभिघातादिना शालूकत्वरूपानिष्टावाप्तिश्च ॥

 यथावा--

 गतिगर्वादभियंस्त्वां मुखवात्याधूत उपरिगत एवाग्रे । वारण उरणस्समजनि न पुरस्कुरुते रणं तदद्याप्येषः ॥ १२३९ ॥

 हे भगवन्! वारणः गतिगर्वात् गमनगम्भीर्यप्रयुक्तादहंकारात् अभियन् अभियोगार्थमभिमुखं गच्छन् सन् मुखवात्याधूतः । अस्य तवेत्यादिः । तव मुखवात्यया मुखनिश्वासफूत्कारभूम्नैव धूतः । वातानां समूहो वात्या 'पाशादिभ्यो यः' इति सामूहिको यप्रत्ययः । 'तल् बृन्दे येनिकड्यच्त्राः' इत्यनुशासनात् स्त्रीत्वम् । अनेन स्त्रीपराजितत्वं द्योत्यते । अत एव अग्रे अनन्तरं उपरिगत एव क्वापि गगने उट्टङ्कितस्सन्नि-