पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
388
अलंकारमणिहारे

पचाद्यच् । मायाः फलः माफलः लक्ष्मीकरनिष्पन्नत्वान्माफलशब्दो बिल्ववाची । तस्य विकारः फलं माफलम् । यद्वा माप्रदानि श्रीप्रदानि फलानि यस्य स इति माफलः शाकपार्थिव इतिवन्मध्यमपदलोपि समासः । ‘तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः' इत्यलक्ष्म्यपनोदकत्वश्रवणाच्छ्रीप्रदफल इत्यर्थः । ततः फलार्थे वैकारिकाणो लुक् । माफलशब्दस्य ‘बिल्वे शाण्डिल्यशैलृषौ मालूरश्रीफलवपि, इति कोशघटकश्रीफलशब्दवद्बिल्वाभिधायित्वं लक्ष्मीपत्यादिशब्दानां ‘श्रीपतिः पुरुषोत्तमः’ इत्यादिकोशघटकश्रीपत्यादिशब्दानां पुरुषोत्तमाभिधायकत्वमिवेति ध्येयम् । अत्र मालूरफलस्य परानर्थप्रापणरूपेष्टानवाप्त्यनिष्टप्राप्ती निबद्धे ॥

 यथावा--

 मालूरं हरिमहिळे संनद्धं तव कुचाभिभवने ताभ्याम् । एकादिमाभिघाताच्छातं श्रितनीरकं च शालूकमभूत् ॥ १२३८ ॥

 हे हरिमहिळे! मालूरस्य विकारः फलं मालूरम् । वैकारिकाणो लुक्, क्लीबमिति भावः । तव कुचयोः अभिभवने न्यूनीकरणे सन्नद्धं अत एव ताभ्यां तव कुचाभ्यां द्वाभ्यां पुम्भ्यामिति भावः । एकस्मात् आदिमात् आद्यात् अभिघातात् प्रहारादेव छातं छिन्नं ‘छो छेदने' अस्मात्कर्मणि क्तः । 'आदेचः' इत्यात्वम् । ‘छिन्नं छातम्' इत्यमरः। शातमिति वा च्छेदः । शातं तनूकृतं कर्शितमित्यर्थः । ‘शो तनूकरणे' अस्मात् क्तः, आत्वं च प्राग्वत् । अत एव श्रितनीरकं श्रितं