पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
26
अलंकारमणिहारे

इत्याद्यृक्तेः । घृणिषु प्रतीतात्मेति वा परमकारुणिक इत्यर्थः । घृणीति विश्वासविषयस्वभाव इति वा । प्रतिपूर्वकस्य इणो विश्वासार्थकत्वात् । घृणी चासौ प्रतीतात्मा चति विशेषणोभयपदकर्मधारयो वा । अस्मिन् पक्षे प्रतीतो हृष्ट इत्यर्थः । ‘ख्याते हृष्टे प्रतीतः' इत्यमरः । महादयाळुतया लीलाविभूतिस्थानुज्जीवयितुं प्रहृष्टमना इति भावः । अनेन सौलभ्यहेतुभूतकृपाशालितोक्तिः । अत एव तुङ्गं वृषभागं वृषभाद्रिं अयन् प्राप्नुवन् अनेन सौलभ्योक्तिः । श्रियं लक्ष्मीं हृद्यां वक्षस्स्थां प्रथयते स्वस्य श्रीनिवासत्वं प्रदर्शयतीति भावः । अनेन सौलभ्येऽपि परत्वाप्रहाणं दर्शितम् । पक्षे-- घृणिभिः किरणैः प्रतीतात्मा प्रख्यातस्वरूपः यः असितां नीलां मञ्जुलक्ष्माच्छायां क्ष्मायाः भूमेः छाया मञ्जुला च सा क्ष्माच्छाया च तां, शशशब्दाभिलपनीयं भूप्रतिबिम्बमित्यर्थः । वहति ‘लोकच्छायामयं लक्ष्म तवाङ्गे शशसन्निभम्’ इति हरिवंशोक्तेः ‘तवाङ्के’ इत्यपि पाठः । ‘भूच्छायमैच्छन्परे’ इत्यर्वाचीनोक्तेश्च । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । अयं हरिः चन्द्रमाः 'हरिर्यमार्काश्वाग्नीन्दुविष्ण्विन्द्रांशुशुकेषु ना’ इति रत्नमाला । तुङ्गं उच्चं वृषभागं वृषस्य वृषभराशेः भागं तृतीयांशमिति यावत् । तस्यैव तत्परमोच्चस्थानत्वात् । यथोच्यते वराहमिहिराचार्येण--

अजवृषभमृगाङ्गनाकुळीरा झषवणिजौ च दिवाकरादितुङ्गाः ।
दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः ॥

इति । अयन् सन् हृद्यां हृदयप्रियां श्रियं दीप्तिं प्रथयते दीप्तो भवतीत्यर्थः । यद्वा- स्वलग्नजन्मनां शुभसंपदं वितनोतीत्यर्थः ।