पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
27
श्लेषसरः (२८)

‘स्वोच्चे प्रदीप्तः’ इति, ‘दीप्तिः पूर्णं विधत्ते शुभम्’ इति च माधवीयोक्तेः ॥

 यथावा--

 गौरवितासश्रीरनवरतं हृद्याहिता सुहृल्लेखा । येन स वृषाचलाहितधामा देवाधिनायको जयति ॥

 अत्र प्रकृताप्रकृतयोर्भगवन्मघवतोश्श्लेषः । तथाहि— येन भगवता हृदयं लिखतीति हृल्लेखा शोभना हृल्लेखा सुहृल्लेखा अतिमात्रहृदयंगमेत्यर्थः । ‘हृदयस्य हृलेख’ इत्यादिना हृदयशब्दस्य हृदादेशः । ‘हृदयग्राहि हृद्यं च हृल्लेखं हृदयप्रियम्’ इति रत्नकोशः । अत एव अनवरतं हृदि वक्षसि आहिता निहिता अत एव गौरविता सजातगौरवा । तारकादिषु गौरवशब्दस्य पाठात् ‘तद,स्य संजातम्’ इत्यर्थे इतच् । यद्वा-- गौरववती कृता, गौरविताण्यन्ताद्गौरववच्छब्दात् निष्ठायां णाविष्ठवद्भावेन ‘विन्मतोः' इति मतुपो लुक् । अत एव आस दिदीपे । ‘अस दीप्तौ’ इति धातोर्लिट्प्रथमैकवचनम् । पक्षे-- गौः अविता सश्रीः इति छेदः । येन मघवता सश्रीः सलक्ष्मीका हृद्या हृदयप्रिया हिता पथ्या ‘हितं पथ्ये गते धृते' इति मेदिनी । सुहृदो लेखाः देवाः यस्यां सा ‘लेखा अदितिनन्दनाः' इत्यमरः । गौः द्यौः स्वर्ग इत्यर्थः । गौस्स्वर्गे च बलीवर्दे’ इति मेदिनी । अनवरतं अविता रक्षिता । वृषाद्रौ अहितं न्यस्तं धाम स्थानं दिव्यमङ्गळविग्रहो वा यस्य सः ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः । सः देवाधिनायकः भगवान् । पक्षे-- सः वृषा अचलाहितधामेति छेदः । अचलानां शैलानां अहितं धाम तेजः प्रभावो वा यस्य सः गोत्रभिदित्यर्थः । देवानां अधिनायकः सः वृषा मघवा जयतीति ॥