पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
342
अलंकारमणिहारे

मात्रेण केवलफूत्कारेणैवेति लोकोक्तिरियम् । अल्पीयसा यत्नेनैवेति भावः । विनेया उट्टङ्कनीया, पशुपतेः-- इदं विवक्षिततद्विभूतिलघीयस्त्वाभिप्रायकम्, न तु तवेव श्रीपतेरिति भावः । लघीयसी विभूतिः एश्वर्यं च, क्व । भस्मेति च गम्यते । तस्य फूत्कृतिमात्रोट्टङ्कनीयत्वप्रसिद्धेः । न ह्यनयोस्साधर्म्यं कलयाऽपि घटेतेति भावः । अत्र श्रीपतिपशुपतिविभूत्योरनानुरूप्यभाजोर्घटनम् । व्यतिरेकपरिकराङ्कुरोपस्कृतमिदम् ॥

 यथावा--

 नतपातन एवान्यो नतपावन एव नाथ! स भवांस्तु । नारायणगिरिनायक! दूरादिन्धे ततो हि तवभेदः ॥ ११७७ ॥

 अन्यः त्वदितरो देवः नतपातन एव स्वाश्रितान् संसारे पातयत्येवेत्यर्थः । ‘आब्रह्मस्तम्बपर्यन्ताः' इत्यादिना ‘ते हि संसारगोचराः’ इत्युक्तरीत्या स्वयमेव संसारसागरे निमग्नस्स्वावलम्बिनो जनान् कथमुन्मज्जयेदिति भावः । सः ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’ इत्युक्तप्रकारेण प्रसिद्धः भवांस्तु नतपावन एव । ‘पावनस्सर्वभूतानां त्वमेव रघुनन्दन' इत्याद्युक्तरीत्या सर्वाघविध्वंसनपूर्वकमुच्चैर्गतिप्रदातेति भावः । अत एव नारायणगिरिनायक शेषाद्रीश्वर हे नाथ! ततः नतपातनादन्यस्माद्देवात्, तव नतपावनस्य तव भेदः भिदा दूरात् इन्धे अतिशयिततया प्रकाशते । पक्षे-- नतपातनः नतपावन इत्याभ्यां तौ शब्दावेव गृह्येते । तत इति षष्ठ्यास्सार्वविभक्तिकस्तसिः । तयोः नतपातननतपावनशब्दयोरित्यर्थः । तवभेदः