पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
343
विषमालङ्कारसरः (४०)

त व इति वर्णाभ्यां वैलक्षण्यं दूरादिन्धे । अत्रापि देवतान्तरश्रीनिवासयोरननुरूपयोर्घटनम् ॥

 यथावा--

 अशनायातीतोऽनघ! निस्सङ्गः क्वाच्युतस्वरूपस्त्वम् । आद्यूनोऽत्यासङ्गः क्वादित्यस्स्वस्वरूपविभ्रष्टः ॥ ११७८ ॥

 हे अनघ भगवन्! अशनायातीतः अशनायोपलक्षितोर्मिषट्कप्रतिभटः 'अशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति श्रुतेः । निस्सङ्गः कर्मसंबन्धगन्धशून्यः । कर्मफलाननुषक्तो वा ‘निरवद्यं निरञ्जनम्’ इति श्रुतेः ‘न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा' इति गानाश्च । अच्युतं अप्रच्युतं स्वरूपं स्वभावो यस्य स तथोक्तः । रामकृष्णाद्यवतारदशास्वप्यजहत्स्वस्वभाव इत्यर्थः ।

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥

इति गानात् ।

प्रादुर्भावास्तु सेनेश मदंशत्वाद्विशेषतः ।
अजहत्स्वस्वभावा हि दिव्याप्राकृतविग्रहाः ।
दीपाद्दीपा इवोत्पन्ना जगतो रक्षणाय ते ॥

 इति विष्वक्सेनसंहितावचनमप्यत्रैवानुकूलम् । ईदृशः त्वं क्व । आद्यूनः औदरिकः 'आद्यूनस्स्यादौदरिकः' इत्यमरः । उदरभरणैकनिरतत्वात्सर्वाशीति भावः । अत्यासङ्गः अतिमात्रकर्मसंबद्धः कर्मफलस्पृहावान्वा । अत एव स्वस्वरूपविभ्रष्टः