पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
340
अलंकारमणिहारे

सन्तापयन्ति ताम्' इत्यादाविव निवर्त्यनिवर्तकभावविरोधश्चमत्कारी, येनोक्तविभावनाविशेषेऽन्तर्भावश्शक्येत वक्तुम् । अपितु अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिरूप इति सहृदयहृदयमेवात्र प्रमाणमिति । विस्तरस्त्वन्यत्र । तस्मादुपदर्शितमसंगतिप्रकारद्वयान्तरमवश्यमेष्टव्यमित्यलं बहुना ॥

 एवं ‘अन्यत्र स्थितस्यान्यत्रोपलम्भेऽप्यसंगतिर्दृश्यते, इति काव्यदर्पणकारः । तदेदमुदाहरणम्--

 श्रुतिशिरसि विचिन्वन्तः प्रतिकलमपि देवदेव! धीमन्तः । व्यालाधीशेलाधरमौलावाश्चर्यमाप्नुवन्ति त्वाम् ॥ ११७३ ॥

इत्यलंकारमणिहारे असंगतिसर एकोनत्रिंशः.


४०--अथ विषमालंकारसरः.

अनानुरूप्यभाजोर्यद्घटनं विषमं हि तत् ॥

 यत्रातिमात्रवैधर्म्यादत्यन्तमननुरूपयोः द्वयोः पदार्थयोर्घटनं संबन्धो वर्ण्यते तत्र विषमालंकारः । संबन्धश्च संयोगादिरुत्पाद्योत्पादकभावश्चेति सर्वप्रकारसाधारणमेतल्लक्षणमिति ध्येयम् । अत एव हि 'अननुरूपसंसर्गो हि विषमम्' इत्यलंकारसर्वस्वकारः ॥

 यथा--

 क्व नु लोकनायकस्त्वं क्व जरद्द्विरदोऽपि नक्र-