पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
339
असंगतिसरः (३९)

 अरिष्टं अशुभं । शकलयितुं ध्वंसयितुं । अमुनैव अवतारेणैव । तेषां लोकानां अरिष्टं शुभं ‘अरिष्टे तु शुभाशुभे' इत्यमरः । अनयोरपि पद्ययोरुक्तदिशैवासंगतिस्संगमयितव्या ॥

 इदमन्तिममसंगतिप्रकारद्वयं दीक्षीतोपज्ञमेव--

अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा ।
अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥
अपारिजातां वसुधां चिकीर्षन् द्यां तथाऽकृथाः ।
गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः ॥

 इति तैरेव लक्षणयोर्लक्ष्ययोश्च कुवलयानन्दे संदर्शितत्वात् ॥

 अत्र केचित्-- ‘अन्यत्र करणीयस्येत्याद्यसंगतिप्रकारद्वयान्तरकथनमयुक्तं, अपारिजातामित्यत्र पारिजातराहित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैयधिकरण्योपनिन्धनात् ‘विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति प्राथमिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धेन चिकीर्षायास्सामानाधिकरण्येन कार्यमात्रं प्रतिहेतुत्वस्य प्रसिद्धेः । एवं ‘गोत्रोद्धारप्रवृत्तोऽपि’ इत्याद्युदाहरणे ‘विरुद्धात्कार्यसंपत्तिर्दृष्टा काचिद्विभावना’ इत्युक्तविभावनाप्रकारेणैव गतार्थत्वादसंगतिभेदान्तरकल्पनाऽनुचिता' इत्याहुः ॥

 अत्र वदन्ति ‘अपारिजाताम्’ इत्यस्य न प्राथमिकासंगतावन्तर्भावः । न हि ‘विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः' इत्यादाविव कार्यकारणवैयधिकरण्यप्रयुक्तोऽत्र विच्छित्तिविशेषः, येन प्राथमिकासंगतावेवेयमन्तर्भाव्येत । किंतु अन्यत्र करणीयस्य समानकर्तृकस्य कार्यस्यान्यत्र करणप्रयुक्त एव ॥

 एवं 'गोत्रोद्धारप्रवृत्तोऽपि’ इत्यस्य विरुद्धात्कार्यसंपत्तिरूपविभावनायां नान्तर्भावः । न ह्यत्र 'शीतांशुकिरणास्तन्वीं हन्त