पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
327
असंगतिसरः (३९)

च्छब्दाण्णाविष्ठवद्भावे ‘विन्मतोः’ इति मतुपो लुक् । अत्र शरावळीनिपतनस्य कारणस्य मूर्छानिष्फलनयोः कार्ययोश्च वैयधिकरण्यम् । पूर्वोदाहरणवदत्रापि कारणमेकं कार्ये द्वे इति ध्येयम् ॥

 यथावा--

 श्रुत्यञ्चलपरिशीलनमासीन्मौर्व्या उपासनं तु हरेः। बाणानां मोक्षस्तु प्राणानां हन्त वैरिवर्गस्य ॥ ११५३ ॥

 हरेरिति आसीदिति च सर्वत्र संबध्यते । हरेः मौर्व्याः श्रुत्यञ्चलपरिशीलनं वेदान्तविमर्शः कर्णान्तस्पर्शश्च । आसीत् । उपासनं निदिध्यासनं, पक्षे प्रयोगः । तत्तु हरेः बाणानामासीत् । मोक्षः संसारबन्धमुक्तिः शरीरत्यागश्च, स तु वैरिवर्गस्य प्राणानां आसीत् । अत्र श्रुत्यञ्चलपरिशीलनरूपकारणस्य उपासनरूपकार्यस्य च एवं उपासनरूपकारणस्य मोक्षरूपकार्यस्य च वैयधिकरण्यम्। अत्र कारणे द्वे कार्ये च द्वे । मालारूपता एकावळीरूपता चात्र ध्वन्यत इति विशेषः ॥

यथावा--

 कर्षणमविन्दत ज्या फलं कलम्बेष्वलं चकान तव । तद्बुभुजे रिपुवर्गस्सौहित्यं तव बभूव बत भगवन् ॥ ११५४ ॥

 हे भगवन्! तव ज्या मौर्वी । भूरित्यपि गम्यते । कर्षणं लाङ्गलविलेखनं आकर्षणं च अविन्दत । कलम्बेषु बाणेषु फलं सस्यं धान्यबीजं वा । पक्षे आयसमग्रिमशल्यमित्यर्थः ।

फलमिष्वग्रे सस्ये फलके जातीफले धने फाले ।
भोगे बीजे लाभे हेतूत्पन्ने फली तु फलिनी स्यात् ॥