पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
328
अलंकारमणिहारे

 इति रत्नमाला । चकान दिदीपे ‘कन दीप्तौ' लिट् । तत् फलं रिपुवर्गः बुभुजे अभ्यवजह्रे । अन्यत्र त्वत्प्रयुक्तबाणाग्रमनुबभूव । तद्विद्धोऽभवदिति यावत् । सौहित्यं भोजनजनिता तृप्तिस्तु । पक्षे शत्रुहननप्रयुक्ता तुष्टिः तव बभूव । अत्र कर्षणफलयोः भोजनतृप्त्योश्च वैयधिकरण्यम् । इयं श्लेषोपस्कृता वक्ष्यमाणैकावळीसंकीर्णा मालारूपा चेति द्रष्टव्यम् ॥

 अस्यां च विभावनायामिव कार्यांशेऽतिशयोक्त्यनुप्राणनमावश्यकं, अन्यथा विरोधो दुष्परिहारस्स्यात् इत्यलंकारसर्वस्वकारादीनां मतम् । तच्चोदाहृतेषु पद्येषु व्यभिचारादसंगतम् । न हि 'आपेदिरेऽरिललनास्तापाटोपं' इत्यादावरिललनातापाटोपाद्यवाप्त्यंशे अतिशयोक्तिरस्ति, किंतु श्लेषभित्तिकाभेदाध्यवसानमात्रम् । तस्मात् येनकेनापि प्रकारेण कार्याभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि ‘श्रुत्यश्चलपरिशीलनम्' इत्यादौ कारणांशेऽपि श्लेषादिना अभेदाध्यवसानं संभवति । तथाऽपि नासौ तदंशे नियतः । ‘वाराणसीमधाक्षीत्' इत्यादौ दाहाद्यंशे तदभावात् । ‘सा बाला वयमप्रगल्भमनसस्सा स्त्री वयं कातरास्सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम्' इति प्राचीनोदाहरणपद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेशस्याप्यसंभवात् ॥

 क्वचिदसंगतिसमाधानेन चारुतातिशयो दृश्यत इति कुवलयानन्दकाराः ॥ तत्र यथा--

 हारस्स्वोरसि निहितश्श्रीरमया शौरिहृदयमुदलासीत् । तादात्म्यौदार्यमिदं मोदाय न कस्य वा भवेदनयोः ॥ ११५५ ॥