पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
308
अलंकारमणिहारे

इति मेदिनी । दिवः पटुतरसंपत्समृद्धिमत्तामापाद्य देवानानन्दयतीत्यर्थः । अत्र पुष्करपरिषदामोदनिवर्तकतया तद्विरुद्धाच्चन्द्रमसः पुष्करपरिषदामोदनिर्वर्तनरूपकार्यसंपत्तिरुदीरिता ॥ चन्द्रमसः पुष्करामोदस्य चैकस्मिम् काले सहानवस्थानात्कालिको विरोधः ॥

कारणस्योद्भवः कार्याद्यदि षष्ठी विभावना ॥

 कार्यादिति पञ्चम्यर्थो हेतुत्वं न त्वानन्तर्यादिः । अन्यथा कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तावतिप्रसङ्गस्स्यात् ॥

 यथावा--

 सागस्यपि विनतजने दयापयोधिं श्रियास्समुद्भूतम् । वीक्ष्याहीन्द्रगिरीन्दोर्विस्मयजलधिर्विजायते चित्रम् ॥ ११२४ ॥

 अत्र कार्यभूताभ्यां लक्ष्मीचन्द्राभ्यां कारणभूतजलधिजनिर्वर्णितेत्येषा विभावना । दयापयोधिरिव विस्मयो जलधिरिवेत्युपमितसमासाश्रयणेन महती दया महांश्च विस्मयो जायत इति विरोधपरिहारः ॥

 यथावा--

 मनसो जातो विधुरिति ननु सा प्राहानिदंप्रथमवाणी । शुभवृषगिरीशमौळेर्विधोः प्रसन्नं मनोऽजनि विचित्रम् ॥ ११२५ ॥

 अनिदंप्रथमवाणी श्रुतिः ‘चन्द्रमा मनसो जातः' इत्याह । शुभः वृषः वृषभः यस्य तस्य गिरीशस्य शङ्करस्य मौलेः शेखरभूतात् विधोः चन्द्रमसः प्रसन्नं मनः अजनीति विरोधः ।