शुभश्चासौ वृषगिरीशः शेषगिरिः तस्य मौळेः विधोर्भगवतः हेतुभूतात् मनः अस्य ममेत्यादिः। प्रसन्नं भगवद्दर्शनादिना वीतकलुषम् । अजनीति योजनाभेदेन तत्परिहारः । अत्रापि कार्याच्चन्द्रमसो मनसः कारणस्योत्पत्तिर्वर्णिता श्रुतिप्रसिद्धकार्यकारणभाववैपरीत्यवर्णनं पूर्वस्माद्विशेषः ॥
यथावा--
भानुरजायत भगवच्चक्षुष इति वदति पौरुषं सूक्तम् । धामनिधेरजनि हरेर्द्दृष्टिर्विशदा ममैततदाश्चर्यम् ॥ ११२६ ॥
पौरुषं सूक्तं ‘चक्षोस्सूर्यो अजायत’ इति वदति । विशदा प्रसन्ना हरेः भगवतः दृष्टिः चक्षुः धामनिधेः भानोः अजनि एतत् ममाश्चर्यम् । इति विरोधः । धामनिधेः तेजोनिधेः हरेः भगवतः श्रीनिवासात् मम दृष्टिः ज्ञानं ‘दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः। विशदा निर्मला अजनीति योजनाभेदेन परिहारः । अत्रापि कार्याद्भानोः कारणस्य भगवच्चक्षुष उदयो वर्णितः ॥
यथावा--
इन्द्रश्चाग्निश्च मुखादजनिष्टेति श्रुतं पुरुषसूक्ते । जिष्णोश्शुचेर्भगवतः प्रादुरभून्मुखमहो मम समक्षम् ॥ ११२७ ॥
'मुखादिन्द्रश्चाग्निश्च' इति पुरुषसूक्ते श्रुतम् । भगवतः मुखं जिष्णोः इन्द्रात् शुचेः अग्नेर्वा मम समक्षं प्रादुरभूत् अजायत अहो इति विरोधः । परिहारस्तु-- जिष्णोः जयशीलस्य