पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
291
विरोधालङ्कारसरः (३५)

रूपके ‘मुखं चन्द्रः’ इत्यादौ यद्यप्यस्ति विरोधः । तथाऽपि न स तत्र प्रतिपिपादयिषितः । अपितु चन्द्रनिष्ठाह्लादकारिताद्यखिलगुणानां मुखे प्रतिपत्त्यर्थं चन्द्राभेद एवेति स एव चमत्कारी न तु विरोधः । प्रत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वादसत्कल्प इति नालंकारः । केवलसत्ताया अकिंचित्करत्वात् । ‘देवतरुस्तृणं, कुसुमानि शराः’ इत्यादौ भगवदौदार्यादेः विरहिण्यादीनामवस्थायाश्चात्यद्भुतताया विवक्षितत्वात् तदानुरूप्यायान्तर्गर्भितोऽप्यार्थो विरोधस्समुल्लसतीति स एवालंकारः । न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नाम भूदलंकारः । विरोधस्थले ‘देवतरुस्तृणं-- कुसुमानि शराः' इत्यादौ तु विरोधोन्मेषणायाभेदस्यावश्यं विवक्षणीयत्वाद्रूपकापत्तिरिति वाच्यम् । विरोधविवक्षानालिङ्गितत्वस्य रूपकलक्षणे निवेश्यत्वात् । यद्वा अभेदस्यात्र विरोधोन्मेषणार्थमुपात्तस्याचमत्कारित्वाद्रूपकालंकारत्वमयुक्तं, चमत्कारित्वस्यैवालंकारजीवातुत्वादितिदिक् । विस्तरस्त्वन्यत्र ॥

इत्यलंकारमणिहारे विरोधसरः पञ्चत्रिंशः


(३६) अथ विभावनालंकारसरः


कारणव्यतिरेकेऽपि कार्योत्पत्तिर्विभावना ॥ ९८ ॥

 कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्तिर्विभावनेत्यर्थः । तदुक्तं--

क्रियायाः प्रतिषेधेऽपिफलव्यक्तिर्विभावना” ।