पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
292
अलंकारमणिहारे

इति । क्रियाशब्देनात्रकारणं विवक्षितम् । अत्र कारणव्यतिरेकसामानाधिकरण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोधः प्रतिभासमानोऽपि तदितरकारणकल्पनया निवर्तते ॥

 यथा--

 जालं विनैव नितरां लोलं विषयेषु ननु मनोजालम् । निध्यायतां जनानां बद्ध्वाऽऽकर्षसि बताहिशैलमणे ॥ ११०३ ॥

 अत्र हि बन्धनाकर्षणयोर्जालं कारणं तदभावेऽपि बन्धनाकर्षणे प्रतिपाद्यमाने आपाततो विरुद्धे अपि भगवद्दिव्यविग्रहसौन्दर्यहेतुकतया पर्यवस्यतः ॥

 नन्वत्र यस्य कार्यस्योत्पत्तिः प्रतिपाद्यते न हि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते । यदीयकारणव्यतिरेकश्च प्रतीयते न हि तस्य कार्यस्योत्पत्तिः प्रतिपादिता । बन्धनाकर्षणे चेह निश्चलावस्थापनवशीकरणे विवक्षिते न तु संदानग्रहणे । जालं च न भगवत्कर्तृकमानसजालनिश्चलावस्थापनवशीकरणयोः कारणं, अपितु मीनमृगादिबन्धनग्रहणयोरिति चेन्न । मुख्ये हि बन्धनाकर्षणे नहनग्रहणे । गौणे च निश्चलावस्थापनवशीकरणे । गौणयोर्मुख्ययोश्च तयोस्सादृश्यमूलेनाभेदाध्यवसायेन निष्पन्ने सति भेदतिरोधाने मीनमृगादिबन्धनग्रहणकारणमपि जालं निश्चलावस्थापनवशीकरणकारणं संपद्यते । तदभावे चात्र कार्याभिन्नतयाऽध्यवसितयोर्निश्चलावस्थापनवशीकरणयोः प्रतिपादनान्न दोषः । एवं चास्मिन्नलंकारे सर्वत्रापि कार्यांशे प्रायेण अभेदाध्यवसानरूपातिशयोक्तिरनुप्राणकतयाऽवस्थिता । तथा च पायसादिपि-