पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
274
अलंकारमणिहारे

 यथावा--

 पीतांशुकोऽपि भगवंश्चित्रं हरिताभिराम एव त्वम् । विशदयसि च निजरुच्या जगदखिलं भवसि चापि भूतेशः ॥ १०७७ ॥

 पीताः अंशवः किरणाः यस्य स पीतांशुक इति गुणस्य हरितेन हरिद्वर्णेन अभिराम इति गुणेन सह विरोधः । पीताम्बर इति हरेर्भावो हरिता तया अभिराम इति परिहारः । अखिल जगत् निजया रुच्या दीप्त्या विशदयसि धवळ सीति क्रियया विरोधः । निजरुच्या स्वविषयकप्रीत्या विशदयसि निर्मलयसीति परिहारः । भूतेशः रुद्र इति द्रव्येण विरोधः । तस्य पाण्हुरवर्णद्रव्यतया पीतवर्णत्वायोगात् । 'एष भूतेश्वर एष भूतपालः' इति श्रुतेस्सर्वभूतेश्वर इत्यविरोधः । अत्रैकस्यैव पीतांशुकत्वगुणस्य गुणक्रियाद्रव्यैर्विरोध उक्तः । पूर्वत्र तु मृदुलत्वादीनां भिन्नभिन्नानां गुणानां प्रत्येकं गुणादिभिर्विरोध इति वैलक्षण्यं बोध्यम् ॥

एवं गुणस्य गुणादिभिस्त्रिभिर्विरोधो दर्शितः ॥

 अथ क्रियायाः क्रियया यथा--

 आपततां युधि पुरतो द्विषतां महतां शिरांसि चक्रेण । छिन्दन्नमन्दमेषां मुकुन्द विदधासि परममानन्दम् ॥ १०७८ ॥

 अत्र छेदनक्रियाया आनन्दनक्रियया विरोधः । मुक्तौ निरतिशयस्वानन्दानुभवं वितरसीति तदभावः ॥