पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
275
विरोधालङ्कारसरः (३५)

 यथावा--

 सकलेप्सितार्थदाता दुरधिगमो बहुतरैस्तपोभिरपि । विनतान् सुखाकरोषि त्वं ननु दुःखाकरोषि चाब्जाक्ष ॥ १०७९ ॥

 अत्र सुखाकरणदुःखाकरणक्रिययोर्विरोधः । यथासंख्यं पूर्वार्धोक्तावच्छेदकद्वयसद्भावेन तदभावः । सुखाकरोषि दुःखाकरोषीत्युभयत्रापि ‘सुखप्रियादानुलोम्ये । दुःखात्प्रातिलोम्ये' इति डाच् ॥

 यथावा--

 सरभसकरसरसिजधृतसुदर्शनं दैवतैश्च दुर्दर्शम् । भृशमन्वरङ्क्त भीष्मो जिघांसुमपि कंसहिंसनं वीक्ष्य ॥ १०८० ॥

 सुदर्शनमित्यत्र सुष्ठु दृश्यत इति विग्रहः । ‘भाषायां शसियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः' इति खलोऽपवादो युच् । दुर्दर्शमित्यत्र तु दर्शः दर्शनं दृशेर्भावे घञ् । दुष्करो दर्शो यस्य स इति विग्रहः । न तु दुःखेन दृश्यत इति । तथा सति दुर्दर्शन इति स्यात् उदाहृतवार्तिकात् । न च वासरूपविधिना खलपवादस्य युचो वैकल्पिकत्वान्निर्वाहः, तन्निषेधस्य "क्तल्युंट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति' इति परिभाषितत्वात् । तस्मादुक्तरीत्या बहुव्रीहिणैव निर्वाहो युक्तः । एवमेव ‘तं दुर्दर्शं, सुदुर्दर्शमिदं रूपं, दुर्दर्शं शशिखण्डमण्डन’ इत्यादिश्रुतिस्मृत्यर्वाचीनप्रयोगा निर्वाह्याः । अत्र जिघांसुदर्शनानुरञ्जनक्रिययोर्विरोधः अन्वरङ्क्तेत्यत्र अनुपूर्वकाद्रञ्जेर्लङ् ॥