पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
268
अलंकारमणिहारे

अथ विरोधमूला अलंकाराः.


(३५) तत्र विरोधालंकारसरः.

स विरोधोऽविरोधेऽपि विरोधाभासता यदि ।
जात्यादीनां स्वस्वपरसंबन्धाद्दशधा भवेत् ॥

 परमार्थतो विरोधाभावेपि यत्रापाततो विरोधो भासते स विरोधालङ्कारः । विरोधश्च प्ररूढोऽप्ररूढश्चेति द्विविधः । प्ररोहश्च बाधबुद्ध्यनभिभृतत्वं, तद्वैपरीत्यमप्ररोहः । तत्राद्यो दोषस्य विषयः द्वितीयस्त्वलङ्कारस्य । अत एवेममाचक्षते विरोधाभासम् । आ ईषत् भासत इत्याभासः विरोधश्चासावाभासश्चेति । आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत् । तत्रापि कार्यकारणादिबुद्ध्यनालीढो विरोधाभासो विरोधालंकारः । तदालीढस्तु विभावनादिर्वक्ष्यमाणः। अयं च जातिगुणक्रियाद्रव्याणां स्वेन स्वेतरेण च सह योगाद्भवति । एवं च जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रव्याभ्यां, द्रव्यस्य द्रव्येणैवेति दश भेदाः पर्यवसन्नाः । तथाचोक्तम्--

जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणस्त्रिभिः।
क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश ॥

इति । गुणेन सह जातेर्विरोधस्तु पृथङ्नोक्तः, जातेर्गुणविरोध एव तदन्तर्भावात् । एवमुत्तरत्रापि बोध्यम्। क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना, नापि नैयायिकानामिव स्पन्दरूपा । किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपेति ध्येयम् ॥