पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
269
विरोधालङ्कारसरः (३५)

 तत्र जातेर्जात्या विरोधो यथा--

 रम्याणि विमानान्यतिसौम्यानि सरांसि संसदश्चतथा । स्थानस्य तव परात्मन्नूनं नरका भवन्ति नरकारे ॥ १०६५ ॥

 अत्र विमानादिजातेर्नरकजात्या विरोधः । अयं पुरस्स्फुरन्नपि जात्योर्विरोधो वक्ष्यमाणवचनेन भगवत्स्थानापेक्षयाऽतिमात्रहेयतया नरकतुल्या भवन्तीति विमर्शेन निवर्तते । अत्र--

रम्याणि कामचारीणि विमानानि सभास्तथा ।
आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥
एते वै निरयास्तात स्थानस्य परमात्मनः ।

इति महाभारतप्रमाणार्थोऽनुसंहितः ॥

 जातेर्गुणेन यथा--

 घनसारचन्दनाचलवनसारिमरुत्किशोरशशिकिरणाः । त्वद्ध्यानशीतलहृदां तिग्मकरादपि च नाथ तिग्मतराः ॥ १०६६ ॥

 अत्र घनसारादिजातेस्तिग्मतरत्वरूपगुणेन सह विरोधः ॥

 जातेः क्रियया यथा--

 नीराजयमानो घनसाराखण्डप्रदीप एष त्वाम् । वेङ्कटनाथ विलोचनपङ्करुहाण्याशु शिशिरयति नॄणाम् ॥ १०६७ ॥

 अत्र दीपत्वजातेर्लोचनशिशिरीकरणक्रियया सह विरोधः ॥